SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ वाद्यविशेषवन्तः तुम्बवीणिकाः - तुम्बवीणावादकाः अनेके च ये तालाचराः - तालादानेन प्रेक्षाकारिणः, एतैः सर्वैरनुचरिताआसेविता या सा तथा, (( आरामुजाण अगडत लागदीहियवप्पिणिगुणोववेया " आरामा यत्र माधवोलतागृहादिषु दम्प त्यादीन्यागत्य रमन्ते, उद्यानानि पुष्पादिमद्वृक्षसङ्कुलान्युत्वाद बहुजन भोग्यानि, अगडत्ति-अवटाः कूर्पास्तडागानि - प्रतीतानि दीर्घिकाः सारिण्यः, वप्पिणित्ति केदाराः, एते गुणोपेताः- रम्यतादिगुणोपपेता यस्यां सा तथा, 'उविद्धविउलगंभीरखातफलिहा ' उठिबद्धं-उण्डं विउलं विस्तीण गम्भीरम् - अलब्धमध्यं खातम् - उपरिविस्तीर्णमधः सङ्कुचितं परिखा च - अघ उपरि च समखातरूपा यस्यां सा तथा, 'चक्कगयमुसंढिओरोहसयग्घिजमलकवाडघणदुप्पवेसा' चक्राणि - प्रहरणविशेषरूपाणि गदाः - प्रहरणविशेषाः मुषण्ढयोऽप्येवंरूपाः अवरोधः - प्रतोलीद्वारेष्वन्तः प्राकारः सम्भाव्यते, शतधन्योमहायष्टयो महाशिला वा याः पातिताः शतानि पुरुषाणां धनन्ति, यमलानि - समस्थितद्रव्यरूपाणि यानि कपाटानि धनानि च - निश्छिद्राणि तैर्दुष्प्रवेशा या सा तथा, 'धणुकुडिलवंक पागारपरिखित्ता' धनुकुडिलं कुटिलं धनुस्ततोऽपि वक्रेण प्राकारेण परिक्षिप्ता या सा तथा, 'कविसीसयवट्टरइय संठिय विरायमाणा' कपिशीर्षके वृत्तरचितसंस्थितैः- वर्तुलकृत संस्थानैर्विरा जमाना - शोभमाना या सा तथा, 'अट्टालयच रियदारगोपुर तोरणउन्नय सुविभत्तरायमग्गा' अट्टालकाः - प्राकारोपरिभृत्याश्रयविशेषाः चरिका - अष्टहस्तप्रमाणो मार्गः द्वाराणि - भवनदेवकुलादीनां गोपुराणि - प्राकारद्वाराणि तोरणानि च उन्नतानि - उच्चानि यस्यां सा तथा, सुविभक्ता- विविक्ता राजमार्गा यस्यां सा तथा ततः पदद्वयस्य कर्मधारयः, ' छेयायरियरइयदढफलिहइंदकीला' छेकेन - निपुणेनाचार्येण Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy