SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ कुल्याजलसेक्यक्षेत्रसीमा यस्याः सा हलशतसहस्रसकृष्टविकृष्टलष्टप्राज्ञाप्तसेतुसीमा, 'कुक्कुडसंडेयगामपउरा' कुक्कटसम्पात्या ग्रामाः सर्वासु दिक्षु विदिक्षु च प्रचुरा यस्याः सा कुकुटसण्डेयग्रामप्रचुरा, ‘गोमहिसगवेलगप्पभूया 'गावो-बलीवर्दा महिषाः-प्रतीता गावः-स्त्रीगव्य एडकाः--उरभ्राः ते प्रभूता यस्यां सा तथा, 'आयारवन्तचेइयजुवइविसिट्ठसन्निविट्ठबहुला' आकारवन्ति-सुन्दराकाराणि चैत्यानि युवतीनां च पण्यतरुणी. नामिति भावः, विशिष्टानि सन्निविष्टानि, सन्निवेशपाटका इति भावः, बहुलानि-बहूनि यस्यां सा तथा, 'उक्कोडियगायगंठिभेयतकरखंडरक्खरहिया' उत्कोटा-लञ्चा तया चरन्ति उत्कोटिकास्तैर्गात्रभेदैः-शरीरविनाशकारिभिर्ग्रन्थिभेदैः- ग्रन्थिच्छेदैः तस्करैः खण्डरक्षैः-दण्डपाशिक रहिता, अनेन तत्रोपद्रवकारिणामभावमाह, 'क्षेमा' अशिवाभावात् , 'निरुवदवा' राजादिकृतोपद्रवाभावात् , 'सुभिक्षा' भिक्षुकाणां भिक्षायाः सुलभत्वात्, ‘विसत्थसुहावासा' विश्वस्तो-निर्भयः सुखमावासो लोकानां यस्यां सा तथा, 'अणेगकोडिकोडुंबियाइण्णणिव्वुत्तसुहा' अनेककोटीभिः-अनेककोटिसङ्ख्याकैः कौटुम्बिकैराकीर्णा निर्वृता सन्तुष्टजनयोगात् शुभा शुभवस्तूपेत. त्वात् , ततः पदत्रयस्य कर्मधारयः, “नडनट्टजल्लमल्लमुट्ठियवेलंबगकहगपवकलासकआइक्खयलंखमंखतूणइल्लतुंबवीणियअणेगतालाचराणुचरिया" नटा-नाटयितारो, नर्तका ये नृत्यन्ति, जल्ला-राज्ञः स्तोत्रपाठकाः, मल्लाः प्रतीता मौष्टिका-मल्ला एव ये मुष्टिभिः प्रहरन्ति, विडम्बकाः-विदूषकाः कथका:-प्रतीताः प्लवका-ये उत्प्लवन्ते नद्यादिकं वा तरन्ति, लासका-ये रासकान् गायन्ति, जयशब्दप्रयोक्तारो वा भाण्डा इत्यर्थः, आख्या यिका-ये शुभाशुभमाख्यान्ति लखा-महावंशानखेलका मङ्खा:-चित्रफलकहस्ता भिक्षुकाः, 'तूणइल्ला' तूणाभिधान. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy