SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ वाक्यालङ्कारे, दृष्टश्चान्यत्रापि णंशब्दो वाक्यालङ्कारार्थो यथा'इमा ण पुढवी' इत्यादाविति, 'काले' अधिकृतावसर्पिणो. चतुर्थविभागरूपे, अत्रापि गंशब्दो वाक्यालकृतौ, ‘ते णं समर णं' समयोऽवसरवाची, तथा च लोके वक्तारोनाद्याप्येतस्य वक्तव्यस्य समयो वर्तते, किमुक्तं भवति ?नाद्याप्येतस्य वक्तव्यस्यावसरो वर्तते इति, तस्मिन्निति यस्मिन् समये भगवान् सूर्याभदेववक्तव्यतामचकथत् तस्मिन् समये आमलकल्पा नाम नगरी अभवत्, नन्विदानीमपि सा नगरी वर्तते ततः कथमुक्तमभवदिति ? उच्यते, वक्ष्यमाणवर्णकग्रन्थोक्तविभूतिसमन्विता तदैवाभवत् , न तु विवक्षितोपाङ्गविधानकाले, तदपि कथमवसेयमिति चेतू , उच्यते, अयं कालः अवसर्पिणी, अवसर्पिण्यां च प्रतिक्षणं शुभा भावा हानिमुपगच्छन्ति, एतच्च सुप्रतीतं जिनवचनवेदिनामतोऽभवदित्यु. च्यमानं न विरोधभाक् । सम्प्रत्यस्या नगर्या वर्णकमाह"रिद्धस्थिमियसमिद्धा जाव पासाईया दरिसणिजा अभिरूवा पडिरूवा” इति । ऋद्धा-भवनैः पौरजनैश्चातीव वृद्धिमुपागता, 'ऋधि वृद्धा' विति वचनात् , स्तिमिता-स्वचक्रपरचकतस्करडमरादिसमुत्थभयकल्लोलमालाविवर्जिता, समृद्धा-धनधान्यादि. विभूतियुक्ता, ततः पदत्रयस्य विशेषणसमासः, यावच्छब्देन ‘पमुइयजणजाणवया' प्रमुदिताः-प्रमोदवन्तः प्रमोदहेतुवस्तूनां तत्र सद्भावात् , जना-नगरीवास्तव्यलोकाः जानपदाः-जनपदभवास्तत्र प्रयोजनक्शादायाताः सन्तो यत्र सा प्रमुदितजनजानपदा, 'आइण्णजणमणूसा' मनुष्यजनैराकीर्णा, प्राकृतत्वात्पदव्यत्ययः, “हलसयसहस्ससंकिट्ठविगिट्ठलट्ठपण्णत्तसेउसीमा" हलानां शतैः सहस्त्रैश्च सकृष्टो-विलिखिता विकृष्टा -नगर्या दूरवर्तिनी बहिर्वर्तिनीति भावः, लप्टा-मनोज्ञा प्राज्ञैःछेकैराप्ता प्राज्ञाप्ता, छेकपुरुषपरिकर्मितेति भावः, सेतुसीमा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy