SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ स्थाप्यते, उक्तं च नन्द्यध्ययने-" सूयगडे णं असीयसयं किरियावाईणं चतुरासीई अकिरियावाईणं सत्तट्ठी अण्णाणियवाईणं बत्तीसा वेणइयवाईणं तिहं तेवट्ठाणं पासंडियसयाणं णिजूहं किच्चा ससमए ठाविजई" त्ति, प्रदेशी च राजा पूर्व मक्रियावादिमतभावितमना आसीत्, अक्रियावादिमतमेव चावलम्ब्य जीवविषयान् प्रश्नानकरोत्, केशिकुमारश्रमणश्व गणधारी सूत्रकृताङ्गसूचितमक्रियावादिमतप्रक्षेपमुपजीव्य व्याकरणानि व्याकार्षीत्, ततो यान्येव सूत्रकृताङ्गसूचितानि केशिकुमारश्रमणेन व्याकरणानि व्याकृतानि तान्येवात्र सवि. स्तरमुक्तानीति सूत्रकृताङ्गगतविशेषप्रकटनादिदमुपाङ्गं सूत्रकृता. ङ्गस्येति । एतद्वक्तव्यता च भगवता वर्धमानस्वामिना गौतमाय साक्षादभिहिता, तत्र यस्यां नगर्यां येन प्रक्रमेणाभ्यधीयत तदेतत्सर्वमभिधित्सुरिदमाह तेणं कालेणं तेणं समएणं आमलकप्पा नामंनयरी होत्था, रिद्धस्थिमियसमिद्धा जाव पासादीया दरिसणिज्जा अभिरूवा पडिरूवा । (सू० १) तीसे णं आमलकप्पाए नयरीए बहिया उत्तरपुरथिमे दिसीभाए अंबसालवणे नामं चेइए होत्था, पोराणे जाव पडिरूवे । (सू० २) तेणं कालेणं ते णमित्यादि ' 'ते' इति प्राकृतशैलीवशात्तस्मिन्निति द्रष्टव्यं, अस्यायमर्थो-यस्मिन्काले भगवान् वर्धमानस्वामी स्वयं विहरति स्म तस्मिन्निति, 'ण'मिति १ सूत्रकृते अशीतं शतं क्रियावादिनां चतुरशीतिमक्रियावादिनां सप्तषष्टिमज्ञानिकानां द्वात्रिंशतं वैनयिकवादिनां त्रयाणां त्रिषष्ट्यधिकानां पाखण्डिकशतानां नियूहं कृत्वा स्वसमयः स्थाप्यते । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy