________________
॥ अहम् ॥ श्रीमन्मलयगियाचार्यविहितवित्तियुतं श्रीमद्राजप्रश्नीयमुपाङ्गम् ॥
॥ ॐ नमः ॥ प्रणमत वीरजिनेश्वरचरणयुगं परमपाटलच्छायम् । अधरीकृतनतवासवमुकुटस्थितरत्नरुचिचक्रम् ॥१॥ राजप्रश्नीयमहं विवृणोमि यथागमं गुरुनियोगात् । तत्र च शक्तिमशक्तिं गुरवो जानन्ति का चिन्ता ॥२॥
अथ कस्मादिदमुपाङ्गं राजप्रश्नीयाभिधानमिति ? उच्यते, इह प्रदेशिनामा राजा भगवतः केशिकुमारश्रमणस्य समीपे यान् जीवविषयान् प्रश्नानकार्षीत् , यानि च तस्मै केशिकुमारश्रमणो गणभृत् व्याकरणानि व्याकृतवान् , यञ्च व्याकरणसम्यकपरिणतिभावतो बोधिमासाद्य मरणान्ते शुभानुशययोगतः प्रथमे सौधर्मनानि नाकलोके विमानमाधिपत्येनाध्यतिष्ठत् , यथा च विमानाधिपत्यप्राप्त्यनन्तरं सम्यगवधिज्ञानाभोगतः श्रीमद्वर्धमानस्वामिनं भगवन्तमालोक्य भक्त्यतिशयपरीतचेताः सर्वस्वसामग्रीसमेत इहावतीर्य भगवतः पुरतो द्वात्रिंशद्विधि नाट्यमनरीनृत्यत्, नर्तित्वा च यथायुष्कं दिवि सुखमनुभूय ततश्युत्वा यत्र समागत्य मुक्तिपदमवाप्स्यति, तदेतत्सर्वमस्मिन्नुपाङ्गेऽभिधेयं, परं सकलवक्तव्यतामूलं राजप्रश्नीय इतिराजप्रश्रेषु भवं राजप्रश्नीयं । अथ कस्याङ्गस्येदमुपाङ्गं ? उच्यते, सूत्रकृताङ्गस्य, कथं तदुपाङ्गतेति चेत् , उच्यते, सूत्रकृते हाङ्गे अशीत्यधिकं शतं क्रियावादिनां, चतुरशीतिरक्रियावादिनां, सप्तषष्टिरज्ञानिकानां, द्वात्रिंशद्वैनयिकानां, सर्वसङ्ख्यया त्रीणि शतानि त्रिषष्टयधिकानि पाखण्डिकशतानि प्रतिक्षिप्य स्वसमयः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com