________________
उदारेण स्फारेण शब्देनेति योगः, स च स्फारशब्दो मन:प्रतिकूलोऽपि भवति तत आह-'मनोज्ञेन' मनोऽनुकूलेन, तञ्च मनोऽनुकूलत्वं लेशतः स्यादत आह-'मनोहरेण' मनांसि श्री. तृणां हरति-एकान्तेनात्मवशं नयतीति मनोहरो 'लिहादेराकतिगणत्वादन् प्रत्ययः', तेन, तदपि मनोहरत्वं कुत इत्याह'कर्णमनोनिवृतिकरण' निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन मिति वचनात् हेतौ तृतीया, ततोऽयमर्थः-प्रति. श्रोतृकर्णयोर्मनसश्च निर्वृतिकरः-सुखोत्पादकस्ततो मनोहरस्तेनेत्थम्भूतेन शब्देन तान् प्रत्यासन्नान् प्रदेशान् सर्वतो-दिक्षु समन्ततो-विदिक्षु आपूरयन्ति २, शत्रन्तस्य स्यादाविदं रूपं, अत एव श्रिया-शोभया अतीवोपशोभमानानि २ तिष्ठन्ति । 'तए णमित्यादि, ततः स आभियोगिको देवस्तस्य सिंहासनस्यापरोत्तरेण, वायव्ये कोणे इत्यर्थः, उत्तरेण-उत्तरस्यां 'उत्तरपुरस्थिमेणं' ईशान्यां 'अत्र' एतासु तिसृषु दिक्षु सूर्याभस्य देवस्य चतुर्णा सामानिकसहस्राणां योग्यानि चत्वारि भद्रासनसहस्राणि विकुर्वति, पूर्वस्यां चतसृणामग्रमहिषीणां सपरिवाराणां चत्वारि भद्रासनसहस्राणि दक्षिणपूर्वस्यामभ्यन्तरपर्षदोऽष्टानां देवसहस्राणां योग्यानि अष्टौ भद्रासनसहस्राणि दक्षिणस्यां मध्यमपर्षदो दशानां देवसहस्राणां योग्यानि दश भद्रासनसहस्राणि, दक्षिणापरस्यां नैर्ऋतकोण इत्यर्थः, बाहा. पर्षदो द्वादशानां देवसहस्त्राणां द्वादश भद्रासनसहस्राणि पश्चिमायां सप्तानामनीकाधिपतीनां सप्त भद्रासनानि विकुर्वति । तदनन्तरं तस्य सिंहासनस्य चतसृषु दिक्षु अत्र सामानिकादिदेवभद्रासनानां पृष्ठतः सूर्याभस्य देवस्य सम्बन्धिनां षोडशानामात्मरक्षकदेवसहस्राणां योग्यानि षोडश भद्रासनसहस्राणि विकुर्वति, तद्यथा-चत्वारि भद्रासनसहस्राणि पूर्वस्यां चत्वारि दक्षिणतश्चत्वारि पश्चिमायां चत्वारि उत्तरतः सर्व
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com