________________
जीवाभिगममूलटीकाकृत्-'विजयदृष्यं वस्त्रविशेष' इति, तं विकुर्वन्ति-स्वशक्त्या निष्पादयन्ति, कथम्भूतमित्याह-'शङ्खकुन्ददकरजोऽमृतमथितफेनपुञ्जसन्निकाशं' शङ्खः प्रतीतः, कुन्देति-कुन्दकुसुमं दकरजः-उदककणाः अमृतस्य क्षीरोदधिजलस्य मथितस्य यः फेनपुओ-डिण्डीरोत्करः तत्सन्निकाशंतत्समप्रभं, पुनः कथम्भूतमित्याह-सव्वरयणामयं' सर्वात्मना रत्नमयं 'अच्छं सण्डं पासाइयमि'त्यादिविशेषणजालं प्राग्वत् । 'तस्स गमि'त्यादि, तस्य सिंहासनस्योपरि तस्य विजयदृष्यस्य बहुमध्यदेशभागेऽत्र महान्तमेकं वज्रमयं-वज्ररत्नमयमङ्कुशम् अङ्कुशाकारं मुक्तादामावलम्बनाश्रयं विकुर्वन्ति, तस्मिश्च वजमयेऽङ्कशे महदेकं कुम्भाग्रं-मगधदेशप्रसिद्धं कुम्भपरिमाणं मुक्तादाम विकुर्वन्ति । 'से मित्यादि. तत्कुम्भाग्रं मुक्तादाम अन्यैश्चतुर्भिः कुम्भाः कुम्भपरिमाणैर्मुक्तादामभिस्तदर्बोच्चत्वप्रमाणमात्रैः 'सर्वतः सर्वासु दिक्षु समन्ततः सामस्त्येन सम्परिक्षित-व्याप्तं । 'ते णं दामा' इत्यादि, तानि पश्चापि दामानि 'तवणिजलंबूसगा ( गग्गा ?' तपनीयमया लम्बूसगा- आभरणविशेषरूपाः ( सुवर्णप्रतरकाः-सुवर्णपत्राणि तैः मण्डितं शोभितं अग्रं-अग्रभागो येषां तानि तथा ) अग्रभागे येषां प्रलम्बमानानां तानि तथा, 'नानामणिरत्नैः' नानामणिरत्नमयविविधैः विचित्रहारैरर्धहारैश्चोपशोभितः-सामस्त्येनोपशोभितः समुदायो येषां तानि तथा, ईषत्-मनाक् अन्योन्य-परस्परं असंप्राप्तानि-असंलग्नानि पूर्वापरदक्षिणोत्तरागतैः (वातैः ) मन्दाय मन्दाय इति-मन्दं मन्दं 'एजमानानि' कम्पमानानि 'भृशाभीक्ष्ण्याविच्छेदे द्विः प्राक्तमबादे' रित्यविच्छेदे द्विर्वचनं यथा पचन्ति पचन्तीत्यत्र, एवमुत्तरत्रापि, ईषत्कम्पनवशादेव प्रकर्षत इतस्ततो मनाक् चलनेन लम्बमानानि २ ततः परस्परं सम्पर्कवशतः 'पेजंजमाणा पेजंजमाणा' इति शब्दायमानानि २.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com