SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ८३ सङ्ख्यया सप्ताधिकानि चतुःपञ्चाशत्सहस्राणि ५४००७ भद्रासनानां विकुर्वति । 'तस्स णं दिव्वस्से' त्यादि, तस्य 'णमिति पूर्ववत् दिव्यस्य यानविमानस्यायम् - अनन्तरं वक्ष्यमाणस्वरूपो वर्णावासो - वर्णक निवेशः प्रज्ञप्तः, तद्यथा-' से जहानामए' इत्यादि, स यथानाम अचिरोद्गतस्य क्षणमात्रमुद्गतस्य ' हैमन्तिकस्य' शिशिर कालभाविनो बालसूर्यस्य स ात्यन्तमारक्तो भवति दीप्यमानश्चेत्युपादानं, वाशब्दाः सर्वेऽपि समुच्चये, खादिराङ्गाराणि वा 'रत्ति' मिति सप्तम्यर्थे द्वितीया प्राकृतत्वात् यथा'उय विणयभत्तिले पूरेमसिसिरे दहे गए सुरे कत्तो रति सुध्दे पाणियसद्धा सउणयाणमि' त्यत्र, ततोऽयमर्थः - रात्रौ प्रज्वलितानां जपाकुसुमवनस्य वा किंशुकवनस्य वा पारिजातवनस्य वा सर्वतः सर्वासु दिक्षु समन्ततः - सामस्त्येन 'सङ्कुसुमितस्य' सम्यक् कुसुमितस्य, अत्रान्तरे शिष्यः पृच्छति - यादृग्रूप एतेषां वर्णः ' भवेयारूवे सिया' इति स्यात् कथञ्चिद् भवेदेतद्रूपस्तस्य दिव्यस्य यानविमानस्य वर्णः ? सूरिराह - 'नो इणट्टे समहे, तस्स णं दिव्वस्स जाणविमाणस्स पत्तो इट्ठतराए चैव कंततरागे चेत्र मणुन्नत रागे चेव मणामतरागे चैत्र वण्णे पण्णत्ते इति प्राग्वत् व्याख्येयम्, 'गंधो फासो जहा मणीण' मिति गन्धः स्पर्शः यथा प्राग् मणीनामुक्तस्तथा वक्तव्यः, स चैवं - ' तस्स णं दिव्वस्स जाणविमाणस्स इमे पारू गंधे पण्णत्ते, तंजहा से जहानामए कोट्ठपुडाण वा तगरपुडाण वा' इत्यादि । 'तर णं से आभिओगिए देवे' इत्यादि, यावत्करणात् 'करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थर अंजलि कट्टु जपणं विजयणं वद्धावित्ता एयमाणत्तियमिति द्रष्टव्यम् ॥ देवे आभियोगस्स देवस्स अंतिए www.umaragyanbhandar.com तणं से सूरिया Shree Sudharmaswami Gyanbhandar-Umara, Surat
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy