SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ७८ नानि बाहल्येन - उच्चैस्त्वेनेति भावः, कथंभूतां तां विकुर्वन्तीत्यत आह 'सर्वमणिमयीं' सर्वात्मना मणिमयों यावत्करणादच्छामित्यादिविशेषणसमूहपरिग्रहः, तस्याश्च मणिपीठिकाया उपर्यत्र महदेकं सिंहासनं विकुर्वन्ति, तस्य च सिंहासनस्यायमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा - तपनीयमयाः चक्कला रजतमयाः सिंहास्तैरुपशोभितं सिंहासनमुच्यते, सौवर्णिकाःसुवर्णमयाः पादाः नानामणिमयानि पादशीर्षकाणि-पादानामुपरितना अवयवविशेषाः, जम्बूनदमयानि गात्राणि वज्रमयावज्ररत्नापूरिताः सन्धयो- गात्राणां सन्धिमेलाः नानामणिमयं वेचं तजातः ' से णं सीहासण इत्यादि' तत् सिंहासनमीहामृगऋषभ तुरगनरम करण्यालक किन्नररुरुसरभचमरवनलतापझलताभक्तिचित्रं '[सं] सारसारोवचियमणिरयणपायपीढ' मिति [सं] सारसारैः - प्रधानैः मणिरत्नैरुपचितेन पादपीठेन सह यत्ततथा, प्राकृतत्वाच्च पदोपन्यासव्यत्ययः ' अत्थरयमउमसूर गनवतयकुसन्तलिम्बकेसरपच्चत्थुयाभिरामे इति' अस्तरकम् - आच्छादकं मृदु यस्य मसूरकस्य तदस्तरकमृदु, विशेषणस्य परनिपातः प्राकृतत्वात्, नवा त्वक् येषां ते नवत्वचः कुशान्ताःदर्भपर्यन्ता नवत्वचश्च ते कुशान्ताश्च नवत्वक्कु शान्ताः - प्रत्यग्रत्वग्दर्भपर्यन्तरूपाणि लिम्बानि - कोमलानि नमनशीलानि च केसराणि मध्ये यस्य मसूरकस्य तत् नवत्वक्कुशान्त लिम्बकेशरेण आस्तरकमृदुना मसूरकेण नवत्वकुशान्तलिम्बकेसरेण प्रत्यवस्तृतम् - आच्छादितं सत् यदभिरामं तत्तथा, विशेषणपूर्वापरनिपातो यादृच्छिकः प्राकृतत्वात्, 'आईणगरुअबूरनवणीयतूलफासे ' इति पूर्ववत्, तथा 'सुविरइयरयत्ताणे' तथा सुष्ठु विरचितं सुविरचितं रजस्त्राणमुपरि यस्य तत्सुविरचितरजस्त्राणं, 'उवचियखोमियदु गुल्लपट्टपडिच्छयण'मिति, उपचितं परिकमितं यत्क्षौमं दुकूलं - कार्पासिकं वस्त्रं परिच्छादनं रजस्त्राणस्यो Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy