________________
७७
इत्यर्थः विपुला-विस्तीर्णः वृत्तो-वर्तुलः वग्धारिय इति-प्रलम्बितो माल्यदामकलापः-पुष्पमालासमूहो यत्र तदासक्तोसक्तविपुलवृत्तप्रलम्बितमाल्यदामकलापं, तथा पञ्चवर्णेन सरसेनसच्छायेन सुरभिणा मुक्तन-क्षिप्तेन पुष्पपुञ्जलक्षणेनोपचारेणपूजया कलितं पञ्चवर्णसरससुरभिमुक्तपुष्पपुचोपचारकलितं, 'कालागुरुपवरकुन्दुरुकतुरुकधूवमघमघंतगन्धुझ्याभिरामं सुगं. धवरगंधियं गन्धवट्टिभूय' मिति प्राग्वत्, तथा अप्सरोगणानां सङ्घः-समुदायस्तेन सम्यग्-रमणीयतया विकीर्ण- व्याप्तमप्सरोगणसङ्घविकीर्ण, तथा दिव्यानां त्रुटितानाम् आतोद्यानां-वेणुवीणामृदङ्गादीनां ये शब्दास्तैः सम्प्रणादितं-सम्यक्-श्रोत्रमनोहारितया प्रकर्षेण ना. दितं-शब्दवद् दिव्यत्रुटितशब्दसम्प्रणादितं, ' अच्छं जाव पडिरूव'मिति यावच्छब्दकरणात् 'अच्छं सण्हं घटुं मटुं नीरयं निम्मलं निप्पं निकंकडच्छायं सप्पभं समिरियं सउज्जोयं पासाइयं दरिसणिजं अभिरूवं पडिरूव' मिति द्रष्टव्यं, एतञ्च प्राग्वद्वयाख्येयम् । तस्स णमित्यादि, तस्य 'णाम' ति प्राग्वत् प्रेक्षागृहमण्डपस्यान्तः-मध्ये बहुसमरमणीय भूमिभाग विकुर्वन्ति, तद्यथा-आलिंगपुष्करमिति वेत्यादि, तदेव तावद्वक्तव्यं यावन्मणिस्पर्शसूत्रपर्यन्तः, तथा चाह-'जाव मणीणं फासों इति। 'तस्स णमित्यादि, तस्य णमिति पूर्ववत् प्रेक्षागृहमा ण्डपस्य उल्लोकम्-उपरिभागं विकुर्वन्ति पद्मलताभक्तिचित्रं 'जाव पडिरूवमि' ति, यावच्छब्दकरणात् 'अच्छं सह' मित्यादिविशेषणकदम्बकपरिग्रहः । 'तस्स णमि' त्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र 'ण' मिति पूर्ववत् एकं महान्तं वज्रमयमक्षपाटं विकुर्वन्ति, तस्य चाक्षपाटकस्य बहुमध्यदेशभागे तत्रैकां महतीं मणिपीठिका विकुर्वन्ति, अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com