SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ तर्मणिरत्नप्रभातु विशिवसमा भिति मालिणीय, मिति विद्या धरन्तीति विद्याधरा-विशिष्टविद्याश. क्तिमन्तः तेषां यमलयुगलानि-समानशीलानि द्वन्द्वानि तेषां यन्त्राणि-प्रपञ्चविशेषास्तैर्युक्तमिव अर्चिषां-मणिरत्नप्रभाज्वालानां सहस्रर्मालनीयं-परिचारणीयं, किमुक्तं ? एवं नाम अत्यद्भुतर्मणिरत्नप्रभाजालैराकलितमिव भाति यथा नूनमिदं न स्वाभाविकं, किन्तु विशिष्टविद्याशक्तिमत्पुरुषप्रपञ्चप्रभावितमिति, 'रूवगसहस्सकलियं भिसिमाणं भिभिसमाणं चक्खुल्लोयणलेसं सुहफासंसस्सिरीयरूव' मिति प्राग्वत्, क्वचिदेतन्न दृश्यते, 'कञ्चणमणिरयणथूभियाग' मिति काञ्चनं च मणयश्च रत्नानि च काञ्चनमणिरत्नानि तेषां-तन्मयी स्तूपिका-शिखरं यस्य तत्तथा नानाविधाभिः नानाप्रकाराभिः पञ्चवर्णाभिर्घण्टाभिः पताकाभिश्च परि-सामस्त्येन मण्डितमग्रं-शिखरं यस्य तन्नानाविधपञ्चवर्णघण्टापताकापरिमण्डिताग्रशिखरं. चपलं-चञ्चलं चिकचिकीयमानत्वात् मरीचिकवचं-किरणजालपरिक्षेपं विनिर्मुश्चत् ‘लाउल्लोइयमहिय' मिति लाइयं नाम-यद्भमेोमयादिनोपलेपनं उल्लोइयं-कुड्यानां मालस्य च सेटिकादिभिः सम्मृ. ष्टीकरणं लाउल्लोइयमहियं, तथा गोशार्पण-गोशीर्षनामकचन्द. नेन ददरेण-बहलेन चपेटाकारेण वा दत्ताः पञ्चाङ्गुलयस्तलाहस्तका यत्र तद्गोशीर्षरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितलं, तथा उपचिता-निवेशिताः चन्दनकलशा-मङ्गलकलशा यत्र तदुपचितचन्दनकलशं, 'चंदणघडसुकयतोरणपडिदुवारदेसभागमिति' चन्दनघटः-चन्दकलशैः सुकृतानि-सुष्टु कृतानि शोभितानीति तात्पर्यार्थः, यानि तोरणानि तानि चन्दनघटसुकृतानि तानि तोरणानि प्रतिद्वारदेशभाग-द्वारदेशभागे यत्र तत् चन्दनघटसुकृततोरणप्रतिद्वारदेशभागं, तथा 'आसत्तोसत्तविपुलवट्टवग्धारियमल्लदामकलाव' मिति आ-अवाङ् अधोभूमौ लग्न इत्यर्थः, उत्सतं-ऊर्ध्वसक्तं उल्लोचतले उपरि सम्बद्धः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy