SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ णिरयणपायवीढे अत्थरगमिउममूरगणवतयकुसंतलिम्बकेसरपच्चत्थुयाभिरामे सुविरइयरयत्ताणे उवचियखोमदुगुल्लपट्टपडि. च्छायणे रत्तंसुअसंवुए सुरम्मे आईणगरूयबूरणवणीयतूलफासे मउए पासाईए ४। ___'तए णमित्यादि ततःस आभियोगिको देवस्तस्य दिव्यस्य यानविमानस्य बहुमध्यदेशभागे अत्र महत्प्रेक्षागृहमण्डपं विकु. वैति, कथम्भूतमित्याह-अनेकस्तम्भशतसन्निविष्टं तथा अभ्यु. द्ता-अत्युत्कटा सुकृता-सुष्टु निष्पादिता वरवेदिकानि तोरणानि वररचिताः शालभञ्जिकाश्च यत्र तदभ्युद्गतसुकृतवरवेदिकातोरणवररचितशालभञ्जिकाकं, तथा सुश्लिष्टा विशिष्टा लष्टसंस्थिताः मनोज्ञसंस्थानाः प्रशस्ता प्रशस्तवास्तुलक्षणोपेता वैडूर्यविमलस्तम्भा-वैडूर्यरत्नमया विमलाः स्तम्भा यत्र तत् सुश्लिष्टविशिष्टलष्टसंस्थितप्रशस्तवैडूर्यविमलस्तम्भं, तथा नाना मणयः खचिता यत्र भूमिभागे स नानामणिखचितः सुखादिदर्शनात् क्तान्तस्य पाक्षिकः परनिपातः नानामणिखचितः उज्वलो बहुसमः-अत्यन्तसमः सुविभक्तो भूमिभागो यत्र तत् नानामणिखचितोज्वलबहुसमसुविभक्तभूमिभागं, तथा ईहामृगा-वृकाः ऋषभतुरगनरमगरविहगाः प्रतीताः व्यालाः-स्वाप- दभुजगाः किंनरा-व्यन्तरविशेषाः रुरवो-मृगाः सरभाः-आटव्या महाकायाः पशवः चमरा-आटव्या गावः कुञ्जरा-दन्तिनः वनलता-अशोकादिलताः पद्मलताः-पद्मिन्यः एतासां भक्त्याविच्छित्या चित्रमू-आलेखो यत्र तदोहामृगऋषभतुरगनरमक. रविहगव्यालकिन्नररुरुसरभचमरकुञ्जरवनलतापमलताभक्तिचि. त्रं, तथा स्तम्भोद्गतया-स्तम्भोपरिवर्तिन्या वज्ररत्नमय्या वेदिकया परिगतं सद् यदभिरामं तत् स्तम्भोद्गतवज्रवेदिकापरिगताभिराम, 'विजाहरजमलजुगलजन्तजुत्तं पिव अच्चीसहस्स. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy