SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ तच्च किल नोलं भात सदैव तथास्वभावतया, हलधरस्य नीलवस्त्रपरिधानात्, मयूरग्रीवापारावतग्रीवाअतसीकुसुमबाणवृक्षकुसुमानि प्रतीतानि, इत ऊर्व क्वचित् 'इंदनीले इ वा महानीले इ वा मरगए इ वा' इति दृश्यते तत्रेन्द्रनीलमहानीलमरकता रत्नविशेषाः प्रतीताः, अञ्जनकेशिका-वनस्पतिविशेषस्तस्य कुसुममञ्जनकेसिकाकुसुमं, नीलोत्पलं-कुवलयं, नीलाशोककणवीरनीलबन्धुजीवअशोकादिवृक्षविशेषाः, 'भवेयारूवे' इत्यादि प्राग्वद् व्याख्येयं ! तथा 'तत्थ णमित्यादि, तद्यथा नाम शशकरुधिरं उरभ्रः-ऊरणस्तस्य रुधिरं, वराहःशूकरस्तस्य रुधिरं, मनुष्यरुधिरं महिषरुधिरं च प्रतीतं, एतानि हि किल शेषरुधिरेभ्यो लोहितवर्णोत्कटानि भवन्ति तत रतेषामुपादानं, बालेन्द्रगोपकः-सद्योजातेन्द्रगोपकः स हि प्रवृद्धः सन्नीषत्पाण्डुरो रक्तो भवति ततो बालग्रहणं, इन्द्रगोपकःप्रथमप्रावृटकालभावी कीटविशेषः, बालदिवाकरः-प्रथममुद्गच्छन् सूर्यः, सन्ध्याभ्ररागो-वर्षासु सन्ध्यासमयभावी अभ्ररागः, गुञ्जा-लोकप्रतीता तस्यार्धे रागो गुजार्धरागः, गुञ्जाया हि अर्धमतिरक्तं भवति अर्ध चातिकृष्णमिति गुजार्धग्रहणं, जपाकुसुमकिंसुककुसुमपारिजातकुसुमजात्यहिङ्गला लोकप्रसिद्धाः, शिलाप्रवाल-प्रवालनामा रत्नविशेषः प्रवालाङ्करःतस्यैव रत्नविशेषस्य प्रवालस्याङ्करः, स हि तत्प्रथमोद्गतत्वेनात्यन्तरक्तो भवति ततस्तदुपादानं, लोहिताक्षमणि म रत्नविशेषः, लाक्षारसकृमिरागरक्तकम्बलचीनपिष्टराशिरक्तोत्पलरक्ताशोककणवोररक्तबन्धुजीवाः प्रतीताः, 'भवेयारूवे' इत्यादि, प्राग्वत् । 'तत्थ णमि' त्यादि, 'तत्र' तेषां मणीनां मध्ये ये हरिद्रा मणयस्तेषामेतद्रूपो वर्णावासः प्रज्ञप्तः तद्यथा'से जहानामए' इत्यादि, स यथानाम चम्पकः सामान्यतः सुवर्णचम्पको वृक्षः, चम्पकच्छल्लो-सुवर्णचम्पकत्वक्, चम्पक Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy