SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ७० भेदः-सुवर्णचम्पकच्छेदः, हरिद्रा प्रतीता, हरिद्राभेदो-हरिद्रा. च्छेदः, हरिद्रागुटिका-हरिदासारनिर्वतिता गुटिका, हरितालिका-पृथिवीविकाररूपा प्रतीता हरितालिकाभेदो-हरितालिकाच्छेदः, हरितालिकागुटिका-हरितालिकासारनिर्वर्तिता गुलिका, चिकुरो-रागद्रव्यविशेषः, चिकुरागरागः-चिकुरसंयोगनिर्मितो वस्त्रादौ रागः, वरकनकस्य जात्यसुवर्णस्य यः कषपट्टके निघर्षः स वरपुरुषो-वासुदेवस्तस्य वसनं वरपुरुषवसनं, तच्च किल पीतमेव भवतीति तदुपादानं, अल्लकीकुसुमं लोकतोऽवसेयं, चम्पककुसुम-सुवर्णचम्पकपुष्पं कूष्माण्डीकु. सुमं-पुष्पफलीकुसुमं, कोरण्टकः-पुष्पजातिविशेषः तस्य दाम कोरण्टकदाम तडवडा-आउली तस्याः कुसुमं तडवडाकुसुमं, घोशातकीकुसुमं सुवर्णयूथिकाकुसुमं च प्रतीतं, सुहिरण्यकावनस्पतिविशेषस्तस्याः कुसुमं सुहिरण्यकाकुसुमं, बीयकोवृक्षः प्रतीतः तस्य कुसुमं बीयककुसुमं, पीताशोकपीतकणवीरपीतबन्धुजीवाः प्रतोताः, 'भवेयारूवे' त्यादि प्राग्वत् । 'तत्थ णमि' त्यादि, 'तत्र' तेषां मणीनां मध्ये ये शुक्ला मणयस्तेषामयमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा 'से जहानामए' इत्यादि, स यथानाम ' अङ्को' रत्नविशेषः, शङ्खचन्द्र(दन्तकुन्द )कुमुदोदकोदकरजोदधिधनगोक्षीरपूरक्रौञ्चावलिहारावलिहंसावलिबलाकावलयः प्रतीताः, चन्द्रावली-तडागादिषु जलमध्यप्रतिबिम्बितचन्द्रपङ्क्तिः , 'सारइयबलाहगे इति वा' शारदिकः-शरत्कालभावी बलाहको-मेघः, 'धन्तधोयरुप्पपट्टे इ वेति' ध्मातः-अग्निसम्पर्केण निर्मलीकृतो धौतः-भूतिखरण्टितहस्तसंतर्जनेन अतिनिशितीकृतो यो रूप्यपट्टो-रजतपत्रक स ध्मातधौतरूप्यपट्टः, अन्ये तु व्याचक्षते ध्मातेन-अग्निसंयोगेन यो घौतः-शोधितो रुप्यपट्टःस मातधौतरूप्यपट्टः, शालिपिष्टराशि:-शालिक्षोदपुञ्जः, कुन्दपुष्पराशिः कुमुदराशिश्च Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy