________________
तदुपादानं, कृष्णाशोककृष्णकणवीरकृष्णबन्धुजीवाः अशोककणवोरबन्धुजीववृक्षभेदाः, अशोकादयो हि पञ्चवर्णा भवन्ति ततः शेषवर्णव्युदासार्थ कृष्णग्रहणं, एतावत्युक्ते त्वरावानिव शिष्यः पृच्छति-' भवे एयारूवे' इति भवेत् मणीनां कृष्णो वर्णः 'एतद्रूपो' जीमूतादिरूपः? सूरिराह-'नायमर्थः समर्थः' नायमर्थ उपपन्नो, यदुत-एवम्भूतः कृष्णो वर्णो मणीनामिति, यद्येवं तर्हि किमर्थं जीमूतादीनां दृष्टान्तत्वेनोपादानमत आह
औपम्यम्-उपमामात्रमेतत् उदितं हे श्रमण आयुष्मन् ! यावता पुनस्ते कृष्णा मणय 'इतो' जीमूतादेरिटतरका एव-कृष्णेन वर्णन अभीप्सिततरका एव, तत्र किश्चिदकान्तमपि केषाश्चिदिएतमं भवति ततोऽकान्तताव्यवच्छित्यर्थमाह-कान्ततरका एव' अतिस्निग्धमनोहारिकालिमोपचिततया जीमूतादेः कम. नीयतरकाः, अत एव मनोज्ञतरका एव-मनसा ज्ञायते-अनु. कूलतया स्वप्रवृत्तिविषयीक्रियते इति मनोज्ञं मनोऽनुकूलं ततः प्रकर्षविवक्षायां तरप्प्रत्ययः, तत्र मनोज्ञतरमपि किश्चिन्मध्यम भवेत् , ततः सर्वोत्कर्षप्रतिपादनार्थमाह-'मन आपतरका एव' द्रष्टणां मनांसि आप्नुवन्ति-आत्मवशतां नयन्तीति मन आपास्ततः प्रकर्षविवक्षायां तरप्प्रत्ययः, प्राकृतत्वाच्च पकारस्य मकारे मणामतरा इति भवति । तथा 'तत्थ णमित्यादि, तत्र तेषां मणीनां मध्ये ये ते नीला मणयस्तेषामयमेतद्रूपो वर्णावासो-वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-'से जहानामए' इत्यादि स यथा नाम भृङ्गः-कोटविशेषः पक्ष्मलः ‘भृङ्गपत्रं' तस्यैव भृङ्गाभिधानस्य कीटविशेषस्य पक्ष्म शुकः-कीरः, शुकपिच्छं -शुकस्य पत्रं, चाषः-पक्षिविशेषः, 'चापिच्छं' चाषपक्षः, नीली प्रतीता, नीलीभेदो-नीलीच्छेदः, नीलोगुलिका-गुलिका. द्रव्यगुटिका, श्यामाको-धान्यविशेषः, 'उञ्चंतगो' दन्तरागः, वनराजी प्रतीता, हलधरो-बलदेवस्तस्य वसनं हलधरवसनं, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com