SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ६७ 6 छाया - निर्मलत्वरूपा येषां ते सच्छायाः, तथा सती - शोभना प्रभा - कान्तिर्येषां ते सत्प्रभाः तैः, ' समरीइएहिं ' इति समरीचिकैः- बहिर्विनिर्गत किरणजालसहितैः सोद्योतैः - वहिर्व्यवस्थितप्रत्यासन्नवस्तुस्तोमप्रकाशकरोद्योतसहितैः एवम्भूतैर्नानाजातीयैः पञ्चवर्णैर्मणिभिरुपशोभितः, तानेव पञ्चवर्णानाह' तंजहा - कण्हेहिं' इत्यादि सुगमं, ' तत्थ णमित्यादि, 'तत्र' तेषां पञ्चवर्णानां मणीनां मध्ये 'णमिति वाक्यालङ्कारे, ये ते कृष्णा मणयः, ते कृष्णमणय इत्येव सिद्धे ये इति वचनं भाषाक्रमार्थ, तेषां 'णमिति पूर्ववत्, अयम्- अनन्तरमुद्दिश्यमान एतद्रूपः - अनन्तरमेवं वक्ष्यमाणस्वरूपो वर्णावासो - वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-' से जहानामए ' इत्यादि, स यथा नाम जीमूत' इति जीमूतो - बलाहकः, स चेह प्रावृट्प्रारम्भसमये जलभृतो वेदितव्यः, तस्यैव प्रायोऽतिकालिमसम्भवात् इतिशब्द उपमाभूतवस्तुनामपरिसमाप्तिद्योतकः, वाशब्द उपमानान्तरापेक्षया समुच्चये, एवं सर्वत्र, अञ्जनं - सौवीराञ्जनं रत्नविशेषो वा, खञ्जनं - दीपमल्लिकामलः, कज्जलं- दीपशिखापतितं, मषी - तदेव कज्जलं ताम्रभोजनादिषु सामग्रीविशेषेण घोलितं मसीगुलिका घोलितकज्जलगुटिका, क्वचित् ' मसी इति वा मस्टीगुलिया ' इति न दृश्यते, 'गवलं ' माहिषं शृङ्गं तदपि चोपरितनत्वग्भागापसारेण द्रष्टव्यं तत्रैव विशिष्टस्य कालिम्नः सम्भवात्, तथा तस्यैव माहिषशृङ्गनिबिडतरसार निर्वर्तिता गुटिका गवलगुटिका भ्रमरः प्रतीतः भ्रमरावली-भ्रमरपङ्क्तिः भ्रमरपतङ्गसारः-भ्रमरपक्षान्तर्गतो विशिष्टकालिमोपचितप्रदेशः, जम्बूफलं प्रतीतं, आर्द्रारिष्टकः - कोमलः काकः, परपुष्टः- कोकिलः, गजो गजकलभश्च प्रतीतः कृष्णसर्पः- कृष्णवर्णसर्पजातिविशेषः, कृष्णकेसरः- कृष्णबकुलः ' आकाशथिग्गलं' शरदि मेघविनिर्मुक्तमाकाशखण्डं, तद्धि कृष्णमतीव प्रतिभातीति Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy