SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ मृदगपुष्करं 'परिपूर्ण' पानीयेन भृतं तडाकं सरस्तस्य तलम्उपरितनो भागः सरस्तलं, करतलं प्रतीतं, चन्द्रमण्डलं सूर्यमण्डलं च यद्यपि तत्त्ववृत्त्या उत्तानीकृतार्धकपित्थाकारं पीठप्रासादापेक्षया वृत्तालेखमिति तद्तो दृश्यमानो भागो न समतलस्तथापि प्रतिभासते समतल इति तदुपादानं, आदर्शमण्डलं सुप्रसिद्धं, 'उरभचम्मे इ वे'त्यादि, अत्र सर्वत्रापि 'अणेगसंकुकीलगसहस्सवितते' इति विशेषणयोगः, उरभ्रः-ऊरणः, वृषभवराहसिंहव्याघ्रच्छगलाः प्रतीताः द्वीपी-चित्रकः, एतेषां प्रत्येकं चर्म अनेकैः शङ्कप्रमाणः कीलकसहनैः, महद्भिर्हि कोलकैस्ताडितं प्रायो मध्ये क्षामं भवति, तथारूपताडासम्भवात् अतः शङ्कग्रहणं, 'विततं' विततीकृतं ताडितमिति भावः, यथात्यन्तं बहुसमं भवति तथा तस्यापि यानविमानस्यान्तबहुसमो भूमिभागः, पुनः कथम्भूत इत्याह-'णाणाविहपंचवण्णेहिं मणीहिं उवसोभिए ' नानाविधाः-जातिभेदान्नानाप्रकारा ये पञ्चवर्णा मणयस्तैरुपशोभितः, कथम्भूतैरित्याह-'आवडे' इत्यादि, आवर्तादीनि मणीनां लक्षणानि, तत्रावर्तः प्रतीतः एकस्यावर्तस्य प्रत्यभिमुख आवर्तः प्रत्यावर्तः श्रेणिः-तथाविधविन्दुजा पङ्क्तिस्तस्याश्च श्रेणेर्या च निर्गता अन्या श्रेणिः सा प्रश्रेणिः स्वस्तिकः प्रतीतः सौवस्तिकपुष्पमाणवौ लक्षणविशेषौ लोकात्प्रत्येतव्यौ वर्धमानकं-शरावसम्पुटं मत्स्यकाण्डकमकरकाण्डके प्रतीते 'जारमारेति' लक्षणविशेषौ सम्यग्मणिलक्षणवेदिनो लोकाद्वेदितव्यौ, पुष्पावलिपद्मपत्रसागरतरङ्गवासन्तीलतापद्मलताः सुप्रतीताः तासां भक्त्या-विच्छित्त्या चित्रम्-आलेखो येषु ते आवर्तप्रत्यावर्तश्रेणिस्वस्तिकसौवस्तिकपुष्पमाणववर्धमानकमत्स्याण्डकमकराण्डकजारमारपुष्पावलिपद्मपत्रसागरतरङ्गवासन्तीलतापद्मलताभक्तिचित्रास्तैः, किमुक्तं भवति ? आवर्तादिलक्षणोपेतैः, तथा सच्छायैः सती-शोभना Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy