SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ 'तेसि णमित्यादि, तेषां च त्रिसोपानप्रतिरूपकाणामयमेतद्रूपो-वक्ष्यमाणस्वरूपो ‘वर्णावासो' वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-वज्रमया' वज्ररत्नमया नेमी' नेमिभूमिका तत्र ऊर्ध्व निर्गच्छन्तः प्रदेशाः रिष्ठरत्नमयानि प्रतिष्ठानानि निष्ठानानि त्रिसोपानमूलप्रदेशाः वैडूर्यमयाः स्तम्भाः सुवर्णरूप्यमयानि फलकानि-त्रिसोपानाङ्गभूतानि, लोहिताक्षमय्यः सूचयः-फलकद्वयसम्बन्धविघटनाभावहेतुपादुकास्थानीयाः 'वज्रमया' वज्ररत्नपूरिताः ‘सन्धयः' फलकद्वयापान्तरालप्रदेशाः नानामणिमयानि अवलम्ब्यन्ते इति अवलम्बनानि-अवतरतामुत्तरतां चालम्बनहेतुभूता अवलम्बनबाहातो विनिर्गताः केचिदवयवाः, ' अवलम्बणबाहाओ य'त्ति अवलम्बनबाहाश्च नानामणिमय्यः, अवलम्बनबाहा नाम उभयोः पार्श्वयोरवलम्बनाश्रयभूता भित्तयः, 'पासाइयाओ' इत्यादि पदचतुष्टयं प्राग्वत् । 'तेसि ण' मित्यादि, तेषां ‘णमिति वाक्यालङ्कारे त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येकं तोरणं प्रज्ञप्तं, तेषां च तोरणानामयमेत पो वर्णावासो-वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-तोरणा नानामणिमया इत्यादि, क्वचिदेवं पाठः- तेसि णं तिसोवाणपडिरूवगाणं पुरओ तोरणे विउचइ तोरणा नाणामणिमया' इत्यादि, मणयः-चन्द्रकान्ताद्याः, विविधमाणिमयानि तोरणानि नानामणिमयेषु स्तम्भेषु उपनिविष्टानि-सामीप्येन स्थितानि, तानि च कदाचिञ्चलानि अथवा अपदपतितानि वाशङ्कयेरन् तत आह-सम्यक्-निश्चलतया अपदपरिहारेण च निविष्टानि, ततो विशेषणसमासः, उपनिविष्टसन्निविष्टानि, 'विविहमुत्तरो (रारूवो) वचियाई' इति विविधा-विविधविच्छित्तिकलिता मुक्ता-मुक्ताफलानि 'अन्तरे'ति अन्तराशब्दोऽगृहीतवीप्सोऽपि सामर्थ्याद्वीप्सां गमयति, अन्तरा २ रूपोपचितानि याक्ता यत्र तानि तथा, 'विविहतारोवचियाई' विविधैस्तारारूपैः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy