SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ समश्रेणीकं द्वन्द्वं विद्याधरयमलयुगलं तञ्च तद् यन्त्रं चसश्चरिष्णुपुरुषप्रतिमाद्वयरूपं तेन युक्तं तदेव तथा, अर्चिषांकिरणानां सहस्रैर्मालिनीयं-परिचारणीयं अचिःसहस्रमालिनीयं, तथा रूपकसहस्रकलितं, 'भिसमाणं ति' दीप्यमानं 'भिभि. समाणम्' अतिशयेन देदीप्यमानं, 'चक्खुल्लोयणलेसं ति' चक्षुः कर्तृ लोकने लिसतीव-दर्शनीयत्वातिशयात् श्लिष्यतीव यत्र तत्तथा, 'सुहफासं ति' शुभः-कोमलः स्पर्शो यस्य तत्तथा, सश्रीकानि-सशोभाकानि रूपाणि-रूपकाणि यत्र तत् सश्रीकरूपं, 'घण्टावलिचलियमहुरमणहरसर 'मिति घण्टा. वलेः-घण्टापङ्क्तेर्वातवशेन चलितायाः-कम्पितायाः मधुरःश्रोत्रप्रियो मनोहरो-मनोनिवृतिकरः स्वरो यत्र तत्तथा, चलित. शब्दस्य विशेष्यात्परनिपातः प्राकृतत्वात् , 'शुभं' यथोदितवस्तुलक्षणोपेतत्वात् ‘कान्तं' कमनीयं, अत एव दर्शनीयं, तथा 'निउणोचियमिसिमिसिंतमणिरयणघंटियाजालपरिक्खित्त' मिति निपुणक्रियमुचितानि-खचितानि 'मिसिमिसिंत 'त्ति देदीप्यमानानि मणिरत्नानि यत्र तत्तथा तेन, कथंभूतेन ? घण्टिकाजालेन-क्षुद्रघण्टिकासमूहेन परिः-सामस्त्येन क्षिप्तव्याप्तं यत्तत्तथा, योजनशतसहस्रविस्तीर्ण-योजनलक्षविस्तारं 'दिव्यं' प्रधानं 'गमनसजं' गमनप्रवणं शीघ्रगमननामधेयं 'जाणविमाणं' यानरूपं-वाहनरूपं विमानं यानविमानं, शेषं प्राग्वत् । 'तस्स ण 'मित्यादि, तस्स णमिति पूर्ववत् दिव्यस्य यानविमानस्य 'तिदिसिं' इति तिस्रो दिशः समाहृतास्त्रिदिक् तस्मिन् त्रिदिशि, तत्र 'तिसोवाणपडिरूवए' इति त्रीणि एकैकस्यां दिशि एकैकस्य भावात् त्रिसोपानप्रतिरूपकाणि प्रतिविशिष्टं रूपं येषां तानि प्रतिरूपकाणि त्रयाणां सोपानानां समाहारस्निसोपानं त्रिसोपानानि च तानि प्रतिरूपकाणि चेति विशेषणसमासः, विशेषणस्यात्र परनिपातः प्राकृतत्वात् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy