SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ५५ प्रतिशब्दोच्छलनेन विपुलः - सकलविमानव्यापितया विस्तीर्णो बोल:- कोलाहलस्तेन त्वरितं शीघ्रं चपलं आकुलं प्रतिबोधने कृते सति 'घोसणको उहलादिन्नकण्णए गग्गचित्तउव उत्तमाणसाणमिति' कीडग नाम घोषणं भविष्यतीत्येवं घोषणे कुतूहलेन दत्तौ कर्णौ यैस्ते घोषणकुतूहलदत्तकर्णाः, तथा एकाग्रंघोषणा श्रवणैकविषयं चित्तं येषां ते एकाग्रचित्ताः, एकाग्रचित्तत्वेऽपि कदाचिदनुपयोगः स्यादत आह- उपयुक्तमानसाः, ततः पूर्वपदेन विशेषणसमासस्तेषां पदात्यनीकाधिपतिर्देवस्तस्मिन् घण्टारवे 'निसंत पसंतंसि ' इति नितरां शान्तो निशान्तःअत्यन्तमन्दीभूतस्ततः प्रकर्षेण - सर्वात्मना शान्तः प्रशान्तः, ततरिछन्नप्ररूढ इत्यादाविव विशेषणसमासस्तस्मिन् महता २ शब्देन उद्घोषयन्नेवमवादीत् - ' हन्त सुणंतु ' इत्यादि, हन्तेति हर्षे, उक्तं च-' हन्त हर्षेऽनुकम्पायामि 'त्यादि, हर्षश्च स्वामिनादिष्टत्वात् श्रीमन्महावीरपादवन्दनाथ च प्रस्थानसमारम्भात्, शृण्वन्तु भवन्तो बहवः सूर्याभविमानवासिनो वैमानिकदेवा देव्यश्च सूर्याभविमानपतेर्वचनं हितसुखाथ हिताथ सुखार्थ चेत्यर्थः, तत्र हितं जन्मान्तरेऽपि कल्याणावहं तथाविधकुशलं सुखं तस्मिन् भवे निरुपद्रवता, आज्ञापयति भो देवानां प्रियाः ! सूर्याभो देवो यथा गच्छति भोः ! सूर्याभो देवो ! ' जम्बूद्वीपं द्वीपमि 'त्यादि तदेव यावदन्तिके प्रादुर्भवत ॥ तए णं ते सुरियाभविमाणवासिणो बहवे वेमाणिया देवा देवीओ य पायत्ताणियाहिवइस्स देवस्स अंतिए एयमहं सोच्चा णिसम्म हट्ट जाव हियया अप्पेगइया वंदणवत्तियाए अप्पेगइया पूयणवत्तियाए अप्पेगइया सक्कारवत्त्रियाए एवं संमाणव - त्तियाए कोउ लवत्तियाए अप्पेगइया असुयाई सुणिस्सामो सुयाइं अट्ठाई देऊई पसिणाई कारणाई वागरणाई पुच्छिस्सामो, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy