________________
५४
'तए णं से' इत्यादि 'जाव पडिसुणित्ता' इति, अत्र यावच्छब्दकरणात् 'करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्ट एवं देवा ! तहत्ति आणाए विणणं वयणं पडिसुणेइ 'त्ति द्रष्टव्यं, 'तिक्खुत्तो उल्लालेइ 'त्ति त्रिकृत्वःत्रीन् वारान् उल्लालयति-ताडयति, ततो 'ण' मिति वाक्यालङ्कारे तस्यां मेघौघरसितगम्भीरमधुरशब्दायां योजनपरिमण्डलायां सुस्वराभिधानायां घण्टायां त्रिकृत्वस्ताडितायां सत्यां यत् सूर्याभविमानं (तत्र ) तत्प्रासादनिष्कुटेषु च ये आपतिताः शब्दाः-शब्दवर्गणापुद्गलास्तेभ्यः समुच्छलितानि यानि घण्टाप्रतिश्रुताशतसहस्राणि-घण्टाप्रतिशब्दलक्षाणि तैः सङ्कलमपि जातमभूत् , किमुक्तं भवति ? घण्टायां महता प्रयत्नेन ताडितायां ये विनिर्गताः शब्दपुद्गलास्तत्प्रतिघातवशतः सर्वासु दिक्षु विदिक्षु च दिव्यानुभावतः समुच्छलितैः प्रतिशब्दैः सकलमपि विमानमेकयोजनलक्षमानमपि बधिरितमजायत इति । एतेन द्वादशभ्यो योजनेभ्यः समागतः शब्दः श्रोत्रग्राह्यो भवति, न परतः, ततः कथमेकत्र ताडितायां घण्टायां सर्वत्र तच्छब्दश्रुतिरुपजायते ? इति यच्चोद्यते तदपाकृतमवसेयं, सर्वत्र दिव्यानुभावतःतथारूपप्रतिशब्दोच्छलने यथोक्तदोषासम्भवात्। 'तए णमि 'त्यादि, ततो ‘णमिति पूर्ववत् तेषां सूर्याभदेवविमानवासिनां बहूनां वैमानिकदेवानां देवीनां च एकान्तेन सर्वात्मना रतौ-रमणे प्रसक्ता एकान्तरतिप्रसक्ता अत एव नित्य-सर्वकालं प्रमत्ता नित्यप्रमत्ताः, कस्मादिति चेदत आह 'विसयसुहमुच्छियत्ति' विषयसुखेषु मूञ्छिता-अध्युपपन्ना विषयसुखमूच्छिता अध्युपपन्नास्ततो नित्यप्रमत्ताः, ततः पदत्रयस्य पदद्वयमीलनेन विशेषणसमासः, तेषां 'सुसरघंटारवविउलबोलतुरियचवलपडिबोहणे ' इति सुस्वराभिधानाया घण्टाया रवस्य यः सर्वासु दिक्षु विदिक्षु च Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com