________________
__ 'तए णमित्यादि, ततो 'णमिति' पूर्ववत् स सूर्याभो देवस्तेषां 'आभियोगाणं 'ति आ-समन्तादाभिमुख्येन युज्यन्ते -प्रेष्यकर्मसु व्यापार्यन्ते इत्याभियोग्या आभियोगिका इत्यर्थः, तेषामाभियोग्यानां देवानामन्तिके-समीपे एनम्-अनन्तरोक्तमर्थ 'श्रुत्वा' श्रवणविषयं कृत्वा श्रवणानन्तरं च निशम्य-परि. भाव्य ' हट्टतुट्ट जाव हियए' इति यावच्छब्दकरणात् 'हट्टतुट्ठ. चित्तमाणदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए' इति द्रष्टव्यं, पदात्यनीकाधिपतिं देवं शब्दयति, शब्दयित्वा एवमवादीत्-क्षिप्रमेव भो देवानां प्रिय ! सभायां सुधर्मायां-सुधर्माभिधानायां 'मेघोघरसियगंभीरमहुरसद' मिति मेघानामोघः-सङ्घातो मेघौघस्तस्य रसितं-गर्जितं तद्वद्गम्भीरो मधुरश्च शब्दो यस्याः सा मेघौघरसितगम्भीरमधुरशब्दा तां 'जोयणपरिमंडलं' ति योजन-योजनप्रमाणं परिमण्डलं-गुणप्रधानोऽयं निर्देशः पारिमण्डल्यं यस्याः सा योजनपरिमण्डला तां सुस्वरां-सुस्वराभिधानां घण्टामुल्लालयन् २-ताडयन् ताडयन्नित्यर्थः, महता २ शब्देन उद्घोषयन्-उद्घोषणां कुर्वन् एवं वदति-आज्ञापयति भोः सूर्याभो देवो गच्छति भोः सूर्याभो देवो जम्बूद्वीपं भारतं वर्ष आमलकल्पां नगरीमाम्रशालवनं चत्यं यथा (तत्र) श्रमणं भगवं महावीरं वन्दितुं, तत्-तस्मात् , 'तुम्मेवि णमि ,ति यूयमपि ‘णमि 'ति पूर्ववद्, देवानां प्रियाः ! पूर्ववद् सर्वर्या-परिवारादिकया सर्वद्युत्या-यथाशक्तिविस्फारितेन समस्तेन शरीरतेजसा सर्वबलेन -समस्तेन हस्त्यादिसैन्येन सर्वसमुदायेन-स्वस्वाभियोग्यादिसमस्तपरिवारेण, सर्वादरेण-समस्तयावच्छक्तितुलनेन सर्व. विभूत्या-सर्वया अभ्यन्तरवैक्रियकरणादिबाह्यरत्नादिसम्पदा सर्वविभूषया-यावच्छक्तिस्फारोदारशृङ्गारकरणेन 'सव्वसंभमेणंति' सर्वोत्कृष्टेन संभ्रमेन, सर्वोत्कृष्टसम्भ्रमो नामेह स्व
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com