________________
नायकविषयबहुमानख्यापनपरा स्वनायकोपदिष्टकार्यसम्पादनाय यावच्छक्तित्वरितत्वरिता प्रवृत्तिः, 'सव्वपुप्फवत्थगंधमल्ला. लंकारेणं' अत्र गन्धाः-वासाः माल्यानि-पुष्पदामानि अलङ्काराः -आभरणविशेषाः, ततः समाहारो द्वन्द्वस्ततः सर्वशब्देन सह विशेषणसमासः, 'सबदिव्वतुडियसहसंनिनाएणं' इति सर्वाणि च तानि दिव्यत्रुटितानि च सर्वदिव्यत्रुटितानि तेषां शब्दाः सर्वदिव्यत्रुटितशब्दाः तेषामेकत्र मीलनेन यः सङ्गतेन नितरां नादो-महान् घोषः सर्वत्रुटितदिव्यशद्वसन्निनादस्तेन, इह अल्पेष्वपि सर्वशब्दो दृष्टो यथा 'अनेन सर्व पीतं घृत 'मिति, तत आह-'महया इडीए' इत्यादि महत्या यावच्छक्तितुलितया ऋद्धया-परिवारादिकया, एवं 'महया जुईए' इत्याद्यपि भावनीयं, तथा महतां स्फूर्तिमतां वराणां-प्रधानानां तुडतानांआतोद्यानां यमकसमकम्-एककालं पटुभिः पुरुषैः प्रवादितानां यो रवस्तेन, एतदेव विशेषेणाचष्टे-'संखपणवपडहभेरिझल्ल. रिखरमुहिहुडुकमुरवमुइंगदुंदुभिनिग्घोसनाइयरवेण ' शङ्ख:प्रतीतः, पणयो भाण्डानां, पडहः प्रतीतः भेरी-ढक्का झल्लरी. चर्मावनद्धा विस्तीर्णा वलयाकारा खरमुही-काहला हुडुक्काप्रतीता महाप्रमाणो मईलो मुरजः स एव लघुर्मदङ्गो दुन्दुभिःभेर्याकारा सङ्कटमुखी एतेषां द्वन्द्वस्तासां नि?षो-महान् ध्वानो नादितं च-घण्टायामिव वादनोत्तरकालभावी सततध्वनिस्तं. ल्लक्षणो यो रवस्तेन, 'नियगपरिवारसद्धि संपरिखुडा' इति निजकः-आत्मीयः आत्मीयो यः परिवारस्तेन सार्ध, तत्र सहभावः परिवाररीतिमन्तरेणापि सम्भवति तत आह-'संपरिखुडा' सम्यक्-परिवाररीत्या परिवृताः सम्परिवृताः, 'अकालपरिहीणं चेवेति परिहानिः-परिहीनं कालस्य परिहीनं कालविलम्ब इति भावः न विद्यते कालपरिहीनं यत्र प्रादुर्भवने, तदुकालपरिहीनं, क्रियाविशेषणमेतत् , ' अंतिए पाउन्भवह' अन्तिके-समीपे प्रादुर्भवत, समागच्छतेति भावः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com