SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ हतनिचितगात्रास्तेषामिव गात्रं यस्य स चष्टकद्रुघणमुष्टिकसमाहतनिचितगात्राः, 'उरस्सबलसमण्णागए' इति उरसि भवं उरस्यं तच्च तद्बलं च उरस्यबलं तत्समन्वागतः-समनुप्राप्तः उरस्यबलसमन्वागतः आन्तरोत्साहवीर्ययुक्त इति भावः, 'तलजमलयुगलबाहू' तलौ-तालवृक्षौ तयोर्यमलयुगलं-समश्रेणीकं युगलं तलयमलयुगलं तद्वदतिसरलौ पीवरौ च बाहू यस्य स तलयमलयुगलबाहुः 'लंघणपवणजइणपमद्दणसमत्थे' इति लङ्घने-अतिक्रमणे प्लवने-मनाक् पृथुतरविक्रमवति गमने जवने-अतिशीघ्रगतौ प्रमर्दने-कठिनस्यापि वस्तुनश्चूर्णनकरणे समर्थः लङ्घनप्लवनजवनप्रमर्दनसमर्थः, क्वचित् लंघणपवणजइ. णवायामणसमत्थे ' इति पाठः, तत्र व्यायामने-व्यायामकरणे इति व्याख्येयं, छेको-द्वासप्ततिकलापण्डितो, दक्षः-कार्याणामविलम्बितकारी प्रष्टो-वाग्मी कुशलः-सम्यक्रियापरिज्ञान वान् मेधावी परस्पराव्याहतः-पूर्वापरानुसन्धानदक्षः, अत एव 'निपुणसिप्पोवगए' इति निपुणः यथा भवति एवं शिल्पंक्रियासु कौशलं उपगतः-प्राप्तो निपुणशिल्पोपगतः एकं महान्तं शलाकाहस्तकं-सरित्पर्णादिशलाकासमुदायं सरित्पर्णादिशलाकामयीं संमार्जनीमित्यर्थः, वाशब्दो विकल्पार्थो, ‘दंडसं. पुच्छणि वा' इति दण्डयुक्ता सम्पुच्छनी-संमार्जनी दण्ड. सम्पुच्छनी तां वा 'वेणुसिलागिग वा' इति वेणुः-वंशस्तस्य शलाका वेणुशलाकास्ताभिनिवृत्ता वेणुशलाकिकी-वेणुशलाकामयी सम्मार्जनी तां वा गृहीत्वा रामाङ्गणं राजान्तःपुरं वा देवकुलं वा 'सभां वा' सन्तो भान्त्यस्यामिति सभा-ग्रामप्रधानानां नगरप्रधानानां यथासुखमवस्थानहेतुर्मण्डपिका तां वा 'प्रपां वा' पानीयशाला ' आरामं वेति' आगत्यागत्य भोगपुरुषा वरतरुणीभिः सह यत्र रमन्ते-क्रीडन्ति स आरामो नगरानातिदूरवर्ती क्रीडाश्रयः तरुखण्डः तं 'उजाणं वेति' Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy