SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ 'तए णमित्यादि' सुगमं, यावत् ' से जहानामए भइयदारण सिया' इत्यादि, स वक्ष्यमाणगुणो यथानामकोऽनिर्दिटनामकः कश्चिद्भुतिकदारकः-भृतिं करोति भृतिकः-कर्मकरः तस्य दारको भृतिकदारकः स्यात् , किंविशिष्ट इत्याह-तरुणः प्रवर्धमानवयाः ननु दारकः वर्धमानवया एव भवति ततः किमनेन विशेषणेन ? न, आसन्नमृत्योः प्रवर्धमानवयस्त्वाभावात् , न ह्यासन्नमृत्युः प्रवर्धमानवया भवति, न च तस्य विशिष्टसामर्थ्यसम्भवः, आसन्नमृत्युत्वादेव, विशिष्टसामर्थ्यप्रतिपादनार्थश्चैवं आरम्भस्ततोऽर्थवद्विशेषणं, अन्ये तु व्याचक्षते-इह यद्रव्यं विशिष्टवर्णादिगुणोपेतमभिनवं च तत्तरुणमिति लोके प्रसिद्धं, यथा तरुणमिदमश्वत्थपत्रमिति, ततः स भृतिकदारकस्तरुण इति, किमुक्तं भवति? अभिनवो विशिष्टवर्णादिगुणोपेतश्चेति, बलं-सामर्थ्य तद् यस्यास्तीति बलवान् , तथा युगं-सुषमदुष्षमादिकालः स स्वेन रूपेण यस्यास्ति न दोषदुष्टः स युगवान् , किमुक्तं भवति ? कालोपद्रवोऽपि सामर्थ्यविघ्नहेतुः स चास्य नास्तीति प्रतिपत्त्यर्थमेतद्विशेषणं, युवा-यौवनस्थः, युवावस्थायां हि बलातिशय इत्येतदुपादानं, 'अप्पायंके' इति अल्पशब्दोऽभाववाची, अल्पः-सर्वथा अविद्यमान आतङ्को-ज्वरादिर्यस्य सोऽल्यातङ्कः स्थिरोऽग्रहस्तो यस्य स स्थिराग्रहस्तः, 'दढपाणिपायपिटुंतरोरुपरिणए' इति दृढानि-अतिनिबिडचयापन्नानि पाणिपादपृष्टान्तरोरूणि परिणतानि यस्य स दृढपाणिपादपृष्ठान्तरोरुपरिणतः, सुखादिदर्शनात् पाक्षिकः क्तान्तस्य परनिपातः, तथा घनम्-अतिशयेन निचितौ-निबिडतरचयमापन्नौ वलिताविव वलितौ वृत्तौ स्कन्धौ यस्य स घननिचितवलितवृत्तस्कन्धः, 'चम्मेलुगदुघणमुट्ठियसमाहयगत्ते' इति चर्मेष्टकेन द्रुघणेन मुष्टिकया च-मुष्ट्या समाहत्य २ ये निचितीकृतगात्रास्ते चमष्टकद्रुघणमुष्टिकसमा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy