SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ योग्यान् यथाबादरान्-असारान् पुद्गलान् परिशातयन्ति यथासूक्ष्मान्-सारान् पुद्गलान् पर्याददते पर्यादाय चिकीर्षितरूपनिर्माणार्थ द्वितीयमपि वारं वैक्रियसमुद्घातेन समवहन्यन्ते, समवहत्य च यथोक्तानां रत्नादीनामयोग्यान् यथावादरान् पुद्गलान् परिशातयन्ति यथासूक्ष्मानाददते आदाय च ईप्सि. तानि उत्तरवैक्रियाणि विकुर्वन्ति, ननु रत्नादीनां प्रायोग्याः पुद्गला औदारिका उत्तरवैक्रियरूपयोग्याश्च पुद्गला ग्राह्या वैकियास्ततः कथमेवं युक्तमिति ? उच्यते, इह रत्नादिग्रहणं सारतामात्रप्रतिपादनाथ, ततो रत्नादीनामिवेति द्रष्टव्यमिति न कश्चिद्दोषः, अथवा औदारिका अपि तैः गृहीताः सन्तो वैक्रियतया परिणमन्ते, पुद्गलानां तत्तत्सामग्रीवशात् (तथा) तथापरिणमनस्वभावत्वादतोऽपि न कश्चिद्दोषः, तत एवमुत्तरवैक्रियाणि रूपाणि कृत्वा तया देवजनप्रसिद्धया उत्कृष्टया प्रशस्तविहायोगतिनामोदयात् प्रशस्तया शीघ्रसञ्चरणात् 'त्वरितया' त्वरा सञ्जाता अस्या इति त्वरिता तया प्रदेशान्तरक्रमणवती चपला तया क्रोधाविष्टस्येव श्रमासंवेदनात् चण्डेव चण्डा तया निरन्तरं शीघ्रत्वगुणयोगात् शीघ्रा तया शीघया परमोत्कृष्टवेगपरिणामोपेता जवना तया वातोद्भूतस्य दिगन्तव्यापिनो रजस इव या गतिः सा उद्भूता तया दिव्यया-दिवि देवलोके भवा दिव्या तया देवगत्या तिर्यगसङ्खयेयानां द्वीपसमुद्राणां मध्यंमध्येन, मध्येनेत्यर्थः, गृहंगृहेण मध्यंमध्येन पदंपदेन सुखसुखेनेत्यादयः शब्दाश्चिरन्तनव्याकरणेषु सुसाधवः प्रतिपादितो इति नायमपप्रयोगः, अवपतन्तोऽवपतन्तः, समागच्छन्त इति भावः, पूर्वान् पूर्वान् द्वीपसमुद्रान् व्यतिक्रामन्तो व्यतिक्रामन्तः, उल्लङ्घयन्त इत्यर्थः, शेषं सुगमं यावत् । 'देवा' इसमणे भगवं महावीरे देवा एवं वयासी-पोराणमेयं देवा ! जीयमेयं देवा! किच्चमेयं देवा ! करणिज्जमेयं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy