SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ४२ गिका देवाः सूर्याभेन देवेन एवमुक्ताः सन्तो 'हहतु? जाव हियया' इति, अत्र यावच्छन्दकरणात् 'हतुहचित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवसविसप्पमाणहियया' इति द्रष्टव्यं, 'करयलपरिग्गहिय'मित्यादि, द्वयोर्हस्तयोरन्योऽन्यान्तरितालिकयोः सम्पुटरूपतया यदेकत्र मीलनं सा अञ्जलिस्तां करतलाभ्यां परिगृहीता-निष्पादिता करतलपरिगृहीता तां दश नखा यस्यां एकैकस्मिन् हस्ते नखपञ्चकसम्भवात् दशनखा तां तथा आवर्तनमावर्तः शिरस्यावतों यस्याः सा शिरस्यावर्ता 'कण्ठेकाल उरसिलोमे'त्यादिवत् अलुक्समासः, ताम्, अत एवाह-मस्तके कृत्वा विनयेन वचनं सूर्याभस्य देवस्य प्रतिशृण्वन्ति-अभ्युपगच्छन्ति, कथम्भूतेन विनयेनेत्याह-' एवं देवो तहत्ति आणाए' इति हे देव ! 'एवं' यथैव यूयमादिशत तथवाज्ञया-भवदादेशेन कुर्म इत्येवंरूपेण, देवो इत्यत्रौकार आमन्त्रणे प्राकृतलक्षणवशात्, यथा 'अजो' इत्यत्र, प्रतिश्रुत्य वचनं 'उत्तरपुरस्थिमं' उत्तरपूर्वदिग्भागं, ईशानकोणमित्यर्थः, तस्यात्यन्तप्रशस्तत्वात् , अपकामन्तिगच्छन्ति, अपक्रम्य च वैक्रियसमुद्धातेन-वैक्रियकरणाय प्रयत्नविशेषेण समोहनन्ति-समवहन्यन्ते समवहता भवन्तीत्यथः, समवहताश्चात्मप्रदेशान् दूरतो विक्षिपन्ति, तथा चाह'संखेजाणि जोयणाणि दंडं निस्सरन्ति' दण्ड इव दण्डःउर्ध्वाध आयतः शरीरबाहल्यो जीवप्रदेशसमूहस्तं शरीराबहिः सङ्ख्येयानि योजनानि यावन्निसृजन्ति-निष्काशयन्ति, निसृज्य तथाविधान् पुद्गलानाददते, एतदेव दर्शयति, तद्यथा-रत्नानां ककतनादीनां १ वज्राणां २ वैडूर्याणां ३ लोहिताक्षाणां ४ मसारगल्लाणं ५ हंसगर्भाणां ६ पुद्गलानां ७ सुगन्धिकानां ८ ज्योतीरसानां ९ अञ्जनपुलकानां १० अञ्जनानां ११ रजतानां १२ जातरूपाणां १३ अङ्कानां १४ स्फटिकानां १५ रिष्ठानां १६ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy