________________
४०
ओघेन - सामान्येन सर्वत्र योजनपरिमण्डले क्षेत्रे वर्ष वर्षत, किंविशिष्टस्य कुसुमस्येत्याह-' जलथलयभासुरप्पभूयस्स ' जलजं च स्थलजं च जलस्थलजं जलजं पद्मादि स्थलजं विचकिलादि भास्वरं दीप्यमानं प्रभूतं अतिप्रचुरं ततः कर्मधारयः, भास्वरं च तत्प्रभूतं च भास्वरप्रभूतं जलजस्थलजं च तत् भास्वरप्रभूतं च जलजस्थलजभास्वरप्रभूतं तस्य, पुनः कथम्भूतस्येत्याह - ' बिटट्ठाइस्स' वृन्तेन - अधोवर्तिना तिष्ठतीत्येवंशीलं वृन्तस्थायि तस्य वृन्तस्थायिनः, वृन्तमधोभागे उपरि पत्राणीत्येवं स्थानशीलस्येत्यर्थः, 'दसद्धवण्णस्स' दशानामधे पञ्च दशाधे वर्णा यस्य तद् दशार्धवर्ण तस्य पञ्चवर्णस्येति भावः, इत्थम्भूतस्य च कुसुमजातस्य वर्ष वर्षित्वा ततः योजनपरिमण्डलं क्षेत्रं दिव्यं प्रधानं सुखराभिगमनयोग्यं कुरुत, कथम्भूतं सत् कृत्वा सुरखराभिगमनयोग्यं कुरुतेत्यत आह- कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमघंतगंधुद्धयाभिरामं' कालागुरुः प्रसिद्धः प्रवरः - प्रधानः कुन्दुरुक्कःचीडा तुरुकं - सिल्हकं कालागुरुश्च प्रवरकुन्दुरुक्क तुरुक्कौ च कालागुरुप्रवरकुन्दुरुक्कतुरुक्काः तेषां धूपस्य यो मघमघायमानो गन्धः उद्धृतः इतस्ततो विप्रसृतस्तेनाभिरामं - रमणीयं कालागुरुप्रवरकुन्दुरुक्कतुरुक्क धूपमघमघायमानगन्धोद्धूताभिरामं तथा शोभनो गन्धो येषां ते सुगन्धास्ते च ते वरगन्धाश्च - वासाः सुगन्धवरगन्धास्तेषां गन्धः सोऽस्यास्तीति सुगन्धवरगन्धिकं अतोऽनेकस्वरादिति' इकप्रत्ययः, अत एव गन्धवर्तिभूतं, सौरभ्यातिशयात् गन्धगुटिकाकारमिति भावः, न केवलं स्वयं कुरुत किन्त्वन्यैरपि कारयत, कृत्वा च कारयित्वा च एतां समाशतिकां क्षिप्रमेव- शीघ्रमेव प्रत्यर्पयत, यथोक्तकार्यसम्पा दनेन सफलां कृत्वा निवेदयत ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
·