SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ अन्वर्थस्तेन युक्तानि नामानि नामगोत्राणि, राजदन्तादिदर्शना नामशब्दस्य पूर्वनिपातः, साधयत-कथयत, कथयित्वा च श्रमणस्य भगवतो महावीरस्य सर्वतः-सर्वासु दिक्षु समन्ततः-सर्वासु विदिक्षु योजनपरिमण्डलं-परिमाण्डल्येन योजनप्रमाणं यत् क्षेत्र तत्र यत् 'तृणं' किलिञ्चादि काष्ठं वा काष्ठशकलं वा पत्रं वा निम्बाश्वत्थादिपत्रजातं कचवरं वा श्लक्ष्णतृणधूल्यादिपुञ्जरूपं, कथम्भूतमित्याह-' अशुचि' अशुचिसमन्वितमचोक्षम्-अपवित्रं पूयित-कुथितमत एव दुरभि. गन्धं तत्संवर्तकवातविकुर्वणेनाहत्याहत्य एकान्ते-योजनपरिमण्डलात्क्षेत्राद्दवीयसि देशे 'एडयत' अपनयत एडयित्वा च नात्युदकं नाप्यतिमृत्तिकं यथा भवति एवं सुरभिगन्धोदकवष वर्षत, कथम्भूतमित्याह-दिव्यं-प्रधानं सुरभिगन्धोपेतत्वात् , पुनः कथम्भूतमित्याह-'पविरलपप्फुसियामिति प्रकर्षेण यावद्रेणवः स्थगिता भवन्ति तावन्मात्रेणोत्कर्षेणेति भावः, स्पर्श. नानि प्रस्पृष्टानि प्रविरलानि घनभावे कर्दमसम्भवात् प्रस्पृ. ष्टानि-प्रकर्षवन्ति स्पर्शनानि मन्दस्पर्शनसम्भवे रेणुस्थगनासम्भवात् यस्मिन्वर्षे तत्प्रविरलप्रस्पृष्टं, अत एव ‘रयरेणुविणासणं' श्लक्ष्णतरा रेणुपुद्गला-रजः त एव स्थूला रेणवः, रजांसि च रेणवश्च रजोरेणवस्तेषां विनाशनं, एवम्भूतं च सुरभिगन्धोदकं वर्ष वर्षित्वा योजनपरिमण्डलं क्षेत्रं निहतरजः कुरुतेति योगः, निहतं रजो भूय उत्थानासम्भवात् यत्र तनिहतरजः, तत्र निहतत्वं रजसः क्षणमात्रमुत्थानाभावेनापि सम्भवति तत आह-नष्टरजः-नष्टं सर्वथादृश्यीभूतं रजो यत्र तन्नष्टरजः, तथा भ्रष्टं-बातोद्धततया योजनमात्रात् क्षेत्रात् दूरतः पलायितं रजो यस्मात्तद् भ्रष्टरजः, एतदेव एकार्थिकद्वयेन प्रकटयति-उपशान्तरजः प्रशान्तरजः कुरुत, कृत्वा च कुसुमस्य-जातावेकवचनं-कुसुमजातस्य जानूत्सेघप्रमाणमात्रं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy