________________
३१
स्त्रीत्वं च, 'चतसृभिरग्रमहिषीभिः' इह कृताभिषेका देवी महिषीत्युच्यते, सा च स्वपरिवारभूतानां सर्वासामपि देवीनामग्रे इत्यग्राः, अग्राश्च ता महिष्यश्च अग्रमहिष्यस्ताभिश्चतसृभिः, कथम्भूताभिरित्याह-'सपरिवाराभिः' परिवारः सह यासां ताः सपरिवारास्ताभिः, परिवारश्चैकैकस्या देव्याः सहस्रं २ देवीनां, तथा तिसृभिः पर्षद्भिः, तिस्रो हि विमानाधिपतेः सर्वस्यापि पर्षदः, तद्यथा-अभ्यन्तरा मध्या बाह्या च, तत्र या वयस्यमण्डलीकस्थानीया परममित्रसंहतिसदृशी सा अभ्यन्तरपर्षत्, तया सहापर्यालोचितं स्वल्पमपि प्रयोजन न विदधाति, अभ्यन्तरपर्षदा सह पर्यालोचितं यस्यै निवेद्यते यथेदमस्माकं पर्यालोचितं सम्मतमागतं युष्माकमपीदं सम्मतं किं वा नेति सा मध्यमा, यस्याः पुनरभ्यन्तरपर्षदा सह पर्यालोचितं मध्यमया च सह दृढीकृतं यस्यै करणायैव निरूप्यते यथेदं क्रियतामिति सा बाह्या, तथा 'सत्तहिं अणिएहिं' इति अनीकानि-सैन्यानि, तानि च सप्त, तद्यथा-हयानीकं गजानीक रणानीक पदात्यनीकं वृषभानीकं गन्धर्वानीक नाटयानीकं, तत्राद्यानि पश्चानीकानि सङ्ग्रामाय कल्प्यन्ते, गन्धर्वनाटयानीके पुनरुपभोगाय, तः सप्तभिरनीकः, अनोकानि स्वस्वाधिपतिव्यतिरेकेण न सम्यक् .प्रयोजने समागते सत्युपकल्प्यन्ते ततः सप्तानीकाधिपतयोऽपि तस्य वेदितव्याः, तथा चाह-'सत्तहिं अणियाहिवईहिं, तथा 'षोडशभिरात्मरक्षदेवसहस्रेरिति विमानाधिपतेः सूर्याभस्य देवास्यात्मानं रक्षयन्तीत्यात्मरक्षाः, 'कर्मणोऽणि'-त्यण प्रत्ययः, ते च शिरः खाणकल्पाः, यथा हि शिरस्त्राणं शिरस्याविद्धं प्राणरक्षक भवति तथा तेऽप्यात्मरक्षका गृहीतधनुर्दण्डादिप्रहरणाः समन्ततः पृष्ठतः पार्वतोऽग्रतश्चावस्थायिनो विमानाधिपतेः सूर्याभस्य देवस्य प्राणरक्षकाः, देवानामपायाभावात् तेषां
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com