SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ ३२. तथाग्रहणपुरस्सरमवस्थानं निरर्थकमिति चेत्, न, स्थितिमात्रपरिपालनहेतुत्वात् प्रकर्षहेतुत्वाच, तथा हि ते समन्ततः सर्वासु दिक्षु गृहीतप्रहरणा ऊर्वस्थिता अवतिष्ठमानाः स्वनायकशरीररक्षणपरायणाः स्वनायकैकनिषण्णदृष्टयः परेषाः मसहमानानां क्षोभमापादयन्तो जनयन्ति स्वनायकस्य परां प्रीतिमिति, एते च नियतसङ्ख्याकाः सूर्याभस्य देवस्य परिवारभूता देवा उक्ताः, ये तु तस्मिन् सूर्यामे विमाने पौरजनपदस्थानीया ये त्वाभियोग्याः दासकल्पास्तेऽतिभूयांसः आस्थानमण्डल्यामपि चानियतसङ्ख्याका इति तेषां सामान्यत उपादानमाह-' अन्नेहिं बहुहिं सूरियाभविमाणवासीहिं देवेहिं देवीहि य सद्धिं संपरिवुडे' एतैः सामानिकप्रभृतिभिः सार्द्ध संपरिवृतः-सम्यग्नायकैकचित्ताराधनपरतया परिवृतः, 'महयाहये 'त्यादि, महता रवेणेति योगः 'आहया' इति आख्या. नकप्रतिबद्धानीति वृद्धाः, अथवा अहतानि-अव्याहतानि, अक्षतानीति भावः, नाटयगीतवादितानि च तन्त्री वोणा तला-हस्ततालाः कंसिकाः तुटितानि-शेषतूर्याणि, तथा घनोघनसदृशोध्वनिसाधर्म्यत्वात् यो मृदङ्गो-मईलः पटुना-दक्षपुरुषेणप्रवादितः, तत एतेषां पदानां द्वन्द्रः, तेषां यो रवस्तेन, दिव्यान् दिवि भवान् अतिप्रधानानित्यर्थः, 'भोगभोगाई इति' 'भोगार्हा ये भोगाः-शब्दादयस्तान् , सूत्रे नपुंसकता प्राकृतत्वात्, प्राकृते हि लिङ्गव्यभिचारः, यदाह पाणिनिः स्वप्राकृतलक्षणे-'लिङ्ग व्यभिचार्यपी 'ति, भुञ्जानो 'विहरति ' आस्ते, न केवलमास्ते किंत्विम-प्रत्यक्षतया उपलभ्यमानं 'केवलकल्पं ' ईषदपरिसमाप्तं केवलं-केवलज्ञानं केवलकल्प, परिपूर्णतया केवलसहशमिति भावः, जम्वा रत्नमय्या उत्तरकुरुवासिन्या उपलक्षितो द्वीपो जम्बूद्वीपस्तं जम्बूद्वीपाभिधानं द्वीपं 'विपुलेन' विस्ती. नावधिना, तस्य हि सूर्याभस्य देवस्यावधिरधः प्रथमां Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy