________________
२९ :
नन्तरं ग्रामो प्रामानुग्राम, तत् द्रवन्-गच्छन् , एकस्मादनन्तरं ग्राममनुल्लङ्घयन इत्यर्थः, अनेनाप्रतिबद्धविहारिता ख्यापिता, तत्राप्यौत्सुक्याभावमाह-'सुहंसुहेणं विहरमाणे' सुखंसुखेनशरीरखेदाभावेन संयमबाधाविरहेण च ग्रामादिषु विहरन्अवतिष्ठमानो 'जेणेवेति प्राकृतत्वात्सप्तम्यर्थे तृतीया यस्मि. नेव देशे आमलकल्पा नगरी यस्मिन्नेव च प्रदेशे वनखण्डो यस्मिन्नेव देशे सोऽनन्तरोक्तस्वरूपः शिलापट्टकः 'तेणामेवेति तस्मिन्नेव देशे उपागच्छति, उपागत्य च पृथिवीशिलापट्टके पूर्वाभिमुखः, तीर्थकृतो हि भगवन्तः सदा समवसरणे पृथिवीशिलापट्टके वा देशनायै पूर्वाभिमुखा अवतिष्ठन्ते संपर्यङ्कनि. षण्णाः, संयमेन तपसा चात्मानं भावयन् विहरन् आस्ते ॥ ततः पर्षन्निर्गमो वाच्यः, स चैवं-तए णं आमलकप्पानयरीए सिंघाडगतियचउक्कचच्चरचउम्मुहमहापहेसु बहुजणो अण्णमण्णं एवमाइक्खइ एवं भासेइ एवं पण्णवेइ एवं परूवेइएवं खलु देवाणुप्पिया ! समणे भगवं महावीरे जाव आगा. सगएणं छत्तणं जाव संजमेणं तवसा अप्पाण भावेमाणे विहरइ, तं महाफलं खलु देवाणुप्पियाणं तहारूवाणं अरहंताणं नामगोयस्सवि सवणयाए किमंग पुण अभिगमणवंदणनमंसणपडिपुच्छणपज्जुवासणयाए? तं सेयं खलु एगस्सवि आयरियस्स धम्मियस्स सुवयणस्स सवणयाए, किमंग पुण विउलस्स अठुस्स गहणयाए ? तं गच्छामो णं देवाणुप्पिया! समणं भगवं महावोरं वंदामो मंसामो सकारेमो सम्माणेमो कल्लाणं मंगलं देवयं चेइयं पज्जुवासेमो, एयं तं इहभवे परभवे य हियाए (सुहाए स्त्रमाए निस्सेसाए ) आणुगामि. यत्ताए भविस्सइ, तए णं आमलकप्पाए नयरीए बहवे उग्गा भोगा' इत्याद्यौपपातिकग्रन्थोक्तं सर्वमवसातव्यं यावत् समग्रापि राजप्रभृतिका परिषत् पर्युपासीना अवतिष्ठते । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com