SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ २८ तत्वं प्रस्तावोचितता, तत्त्वानुरूपत्वं-विवक्षितवस्तुस्वरूपानुसारिता, अप्रकीर्णप्रसृतत्वं-सम्बन्धाधिकारपरिमितता, अन्योऽन्यप्रगृहीतत्वं-पदानां वाक्यानां वा परस्परसापेक्षता, अभिजातत्वं-यथाविवक्षितार्थाभिधानशीलता, अतिस्निग्धमधुरत्वंबुभुक्षितस्य घृतगुडादिवत्परमसुखकारिता, अपरमर्मवेधित्वंपरमर्मानुद्धट्टनशीलता, अर्थधर्माभ्यासानपेतत्वं-अर्थधर्मप्रतिबद्धता, उदारत्वं-अतिविशिष्टगुम्फगुणयुक्तता अतुच्छार्थप्रतिपादकता वा, परनिन्दात्मोत्कर्षविप्रयुक्तत्वं प्रतोतं, उपगतश्लाघत्वं उक्तगुणयोगतः प्राप्तश्लाघता, अनुपनीतत्वं-कारककालवचनलिङ्गादिव्यत्ययरूपवचनदोषापेतता, उत्पादिताविच्छिन्नकुतूहलत्वं-श्रोतृणां स्वविषये उत्पादित-जनितमविच्छिन्नं कौतूहलं-कौतुकं येन तत्तथा तद्भावस्तत्वं, श्रोतृषु स्वविषयाद्ध तविस्मयकारितेति भावः, अद्रुतत्वमनतिविलम्बित्वं च प्रतोतं, विभ्रमविक्षेपकिलिकिञ्चितादिवियुक्तत्वमिति-विभ्रमो-वक्तुओन्तमनस्कता विक्षेपो-वक्तुरेवाभिधेयार्थ प्रत्यनासक्तता किलिकिञ्चितं-रोषभयलोभादिभावानां युगपदसकृत्करणं आदिशब्दान्मनोदोषान्तरपरिग्रहः तैवियुक्तं यत्तत्तथा तद्भावस्तत्त्वं, अनेकजातिसंश्रयाद्विचित्रत्वं-सर्वभाषानुयायितया चित्ररूपता, आहितविशेषत्वं-शेषपुरुषवचनापेक्षया शिष्येषूत्पादितमतिविशेषता, साकारत्वं-विच्छिन्नपदवाक्यता, सत्त्वपरिगृहीतत्वम्ओजस्विता, अपरिखेदित्वम्-अनायाससम्भवात्, अव्यवच्छे. दित्वं-विवक्षितार्थसम्यसिद्धिं यावदविच्छिन्नवचनप्रमेयतेति। 'आगासफालियामएणं' आकाशस्फटिकं यदाकाशवत् अतिस्वच्छं स्फटिकं तन्मयेन ‘धम्मज्झएणं'ति धर्मचक्रवर्तित्वसूचकेन केतुनो महेन्द्रध्वजेनेत्यर्थः, तथा 'पुवाणुपुवि चरमाणे' इति पूर्वानुपूर्व्या क्रमेणेत्यर्थः चरन्-सञ्चरन्, एतदेवाह-वामाणुमामं दूइजमाणे' इति ग्रामश्चानुग्रामश्च-विवक्षितग्रामाद Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy