SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ स्योपादानमत्यन्तोपकारितया प्राधान्यख्यापनार्थम्, अन्यथा देहवैमल्यादयस्ते पठयन्ते, तथा (चाह )-देहं विमलसुगन्धं आमयपस्सेयवजियं अरयं । रुहिरं गोक्खीराभं निविस्सं पंडुरं मंसं ॥१॥ इत्यादि, 'पणतीसाए सञ्चवयणाइसेससंपत्ते' पञ्चत्रिंशत् ये सत्यवचनस्यातिशेषा-अतिशयास्तान् सम्प्राप्तः पश्चत्रिंशद्वचनातिशेषसम्प्राप्तः, ते चामी सत्यवचनातिशेषाः-संस्कारवत्वं १ उदात्तत्वं २ उपचारोपेतत्वं ३ गम्भी. रशब्दत्वं ४ अनुनादित्वं ५ दक्षिणत्वं ६ उपनीतरागत्वं ७ महार्थत्वं ८ अव्याहतपौर्वापर्यत्वं ९ शिष्टत्वं १० असन्दिग्धत्वं ११ अपहृतान्योत्तरत्वं १२ हृदयग्राहित्वं १३ देशकालयुतत्वं १४ तत्त्वानुरूपत्वं १५ अप्रकीर्णप्रसृतत्वं १६ अन्योऽन्यगृहीतत्वं १७ अभिजातत्वं १८ अतिस्निग्धमधुरत्व १९ अपरमर्मवेधित्व २० अर्थधर्माभ्यासानपेतत्वं २१ उदारत्वं २२ परनिन्दात्मोस्कर्षविप्रमुक्तत्वं २३ उपगतश्लाघत्वं २४ अनपनीतत्वं २५ उत्पादिताविच्छिन्नकौतहलत्व २६ अद्भतत्वं २७ अनतिविल. म्बित्वं २८ विभ्रमविक्षेपकिलिकिश्चितादिवियुक्तत्वं २९ अनेक जातिसंश्रयाद्विचित्रत्वं ३० आहितविशेषत्वं ३१ साकारत्वं ३२ सत्त्वपरिगृहीतत्व ३३ अपरिखेदितत्वं ३० अन्युच्छेदित्वं ३५ चेति, तत्र संस्कारवत्त्वं संस्कृतादिलक्षणयुक्तत्वं, उदात्तत्वं उच्चैवृत्तिता, उपचारोपेतत्वम्-अग्राम्यता, गम्भीरशब्दत्वं मेघस्येव, अनुनादिता प्रतिरवोपेतत्वं, दक्षिणत्वं सरलता, उपनीतराग. त्वं-उत्पादिता श्रोतृजने स्वविषयबहुमानता, एते सप्त शब्दा. पेक्षा अतिशयाः अत ऊर्ध्व त्वर्थाश्रयाः, तत्र महार्थत्वं-परिपुष्टार्थाभिधायिता, अव्याहतपौर्वापर्यत्वं-पूर्वापरवाक्याविरोधः, शिष्टत्वं-वक्तः शिष्टत्वसूचनात्, असन्दिग्धत्वं-परिस्फुटार्थप्रतिपादनात्, अपद्रुतान्योत्तरत्वं-परदूषणाविषयता, हृदयग्राहित्वं-दुर्गमस्याप्यर्थस्य परहृदये प्रवेशकरणं, देशकालाव्यती. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy