________________
२६
वाच्छादनपरतयोपवेशनशयनोत्थानादि सङ्गतो विलासःस्वकुलौचित्येन शृङ्गारादिकरणं, तथा सुन्दरैः स्तनजघनवदनकरचरणनयनलावण्यविलासैः कलिता, अत्र विलासः - स्थानासनगमनादिरूपश्चेष्टाविशेषः उक्तं च- " स्थानासनगमनानां, हस्त नेत्रकर्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टोऽसौ विलासः स्यात् ॥१॥ " अन्ये त्वाहुः ' विलासो नेत्रजो विकारः, तथा चोक्तं-" हावो मुखविकारः स्यात्, भावश्चित्तसमुद्भवः । विलासो नेत्रजो ज्ञेयो, विभ्रमो भ्रूसमुद्भवः ॥ १॥ " " तेणं कालेणं ते णं समएणं समणे भगवं महावीरे जाव चउतीसबुद्धवयणाइसेससंपत्ते पणतीससच्चवयणाइसेससंपत्ते आगासगणं चक्केणं आगासगएणं छत्तेणं आगासगयाहिं सेयचामराहिं आगासफालिहमपणं सपायपीढेण सीहासणेण पुरओ धम्मज्झपणं पगढिजमाणेणं चउदसहि समणसाहस्सीहिं छत्तीसार अजिया साहस्सीहिं सद्धिं सम्परिबुडे पुव्वाणुपुवि चरमाणे गामाणुगामं दूइजमाणे सुहं सुहेणं विहरमाणे जेणेव आमलकप्पा नयरी जेणेव वणसंडे जेणेव असोगवर पायवे जेणेव पुढविसिलापट्टे तेणेव उवागच्छद्द, २ ता अहापडिरूवं उग्गहं उग्गिहित्ता असोगवरपायवस्स अहे पुढविसिलापट्ट - गंसि पुरत्थाभिमुहे संपलिअंकनिसण्णे संजमेणं तवसा अप्पाण भावेमाणे विहरइ " । इदं सुगमं, नवरं ' जाव चोत्तीसाए ' इत्यत्र यावच्छब्दकरणात् ' आइगरे तित्थगरे' इत्यादिकः समस्तोsपि औपपातिकग्रन्थप्रसिद्धो भगवद्वर्णको वाच्यः, स चातिगरीयानिति न लिख्यते, केवलमौपपातिकग्रन्थादवसेयः, 'चोत्तीसार बुद्धवयणाइसेससंपत्ते' चतुस्त्रिंशद् बुद्धानां - भगवतामर्हतां वचनप्रमुखाः 'सर्वस्वभाषानुगतं वचनं धर्मावबोध कर 'मित्यादिना उक्तस्वरूपा ये अतिशेषा - अतिशयास्तान् प्राप्तश्चतुस्त्रिंशद्बुद्धवचनातिशेष सम्प्राप्तः, इह वचनातिशेष
Shree Sudharmaswami Gyanbhandar-Umara, Surat
,
www.umaragyanbhandar.com