SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ २५ - पुरुषः स्त्री वा मानप्राप्त उच्यते, तथा उम्मानं - अर्धभारप्रमाणता, सा चैवं - तुलाया मारोपितः पुरुषः स्त्री वा यद्यर्घभारं तुलति तदा स उन्मानप्राप्तोऽभिधीयते, प्रमाणं- स्वाङ्गुलेनाष्टोत्तरशतोच्छ्रयिता, ततो मानोन्मानप्रमाणैः प्रतिपूर्णानि - अन्यूनानि सुजातानि - जन्मदोषरहितानि सर्वाणि अङ्गानि - शिरःप्रभृतीनि यानि तैः सुन्दराङ्गी मानोन्मानप्रमाणप्रतिपूर्णसुजातसर्वाङ्गसुन्दराङ्गी, तथा शशिवत्सोमाकारम् - अरौद्राकारं कान्तंकमनीयं प्रियं द्रष्टृणामानन्दोत्पादकं दर्शनं रूपं यस्याः सा शशि सोमाकारकान्तप्रियदर्शना, अत एव सुरूपा, तथा करतलपरिमितो - मुष्टिग्राह्यः प्रशस्तलक्षणोपेतस्त्रिवलीको वलित्रयोपेतो रेखा त्रयोपेतो बलिको - बलवान् मध्यो- मध्यभागो यस्याः सा करतलपरिमितप्रशस्तत्रिवलीकवलिकमध्या, तथा कुण्डलाभ्यां उल्लिखिता - घृष्टा गण्डलेखा - कपोलविरचितमृगमदादिरेखा यस्याः सा कुण्डलोल्लिखितगण्डलेखा, 'कोमुईयरयणियरवि मलपडिपुण्ण सोमवयणा' कौमुदी - कार्तिकी पौर्णमासी तस्यां रजनिकरः- चन्द्रमास्तद्वद्विमलं निर्मलं प्रतिपूर्णम् - अन्यूनातिरिक्तमानं सौम्यम् - अरौद्राकारं वदनं यस्याः सा तथा, शृङ्गारस्य रसविशेषस्यागारमिवागारं अथवा शृङ्गारोमण्डनभूषणाटोपस्तत्प्रधान आकार:-आकृतिर्यस्याः सा तथा, चारु वेषो - नेपथ्यं यस्याः सा तथा, ततः कर्मधारयः, शृङ्गारागारचारुवेषा, तथा सङ्गता ये गतहसितभणितचेष्टितविलासललित संलापनिपुणयुक्तोपचारकुशला, तत्र सङ्गतं नासङ्गतं गतं यद्गुप्ततया तद्गृहस्यैवान्तर्गमनं न तु बहिः स्वेच्छाचारितया सङ्गतं हसितं - यत्कपोलविकासमात्रसूचितं न त्वदृट्टहासांदि 'हसियं कपोलकहकहिय ' मिति वचनात्, सङ्गतं भणितं यत्समागते प्रयोजने नर्मभणितिपरिहारेण विवक्षितार्थमात्रप्रतिपादनं सङ्गतं चेष्टितं स्त्कुचजधनाद्यवय Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy