________________
२४
निमापादिताः कण्टका यत्र तन्मलितकण्टकं, तथा उद्धताः स्वदेशत्याजनेन जीवितत्याजनेन वा कण्टका यत्र तत् उद्धृतकण्टकं, तथा न विद्यते प्रतिमल्लः कण्टको यत्र तदप्रतिमल्लकण्टकं, तथा 'ओहयसत्तुं' इति प्रत्यनीकाः राजानः शत्रवस्ते अपहताः स्वावकाशमलभमानीकृता यत्र तत् अपहतशत्रु तथा निहताः-रणाङ्गणे पातिताः शत्रवो यत्र तनिहतशत्रु, तथा मलिताः-तद्गतसैन्यत्रासापादनतो मानम्लानिमापादिताः शत्रवो यत्र तत् मलितशत्रु, तथा स्वातन्त्र्यच्यावनेन स्वदेशच्यावनेन जीवितच्यावनेन वा उद्धताः शत्रवो यत्र तत् उद्धृतशत्रु एतदेव विशेषणद्वयेन व्याचष्टे-निर्जितशत्रु, पराजितशत्रु, तथा व्यपगतं दुर्भिक्षं दोषो मारिश्च यत्र तत् व्यपगतदुर्भिक्षदोषमारि, तथा भयेन स्वदेशोत्थेन परचक्रकृतेन वा विप्रमुक्तं, अत एव क्षेम-निरुपद्रवं शिवं-शान्तं सुभिक्षं शोभना-शुभा भिक्षा दर्शनिनां दीनानाथादीनां च यत्र तत् सुभिक्षं, तथा प्रशान्तानि-डिम्बानि-विघ्ना डमराणि-राजकुमारादिकृतविकृतविड्वरा यत्र तत्प्रशान्तडिम्बडमरम् । देवीवर्णकं-'सुकुमालपाणिपाया' इति सुकुमारौ पाणी पादौ च यस्याः सा सुकुमारपाणिपादा, तथा अहीनानि-अन्यूनानि स्वरूपतः प्रतिपूर्णानि लक्षणतः पञ्चापीन्द्रियाणि यस्मिन् तथाविधं शरीरं यस्याः सा अहीनप्रतिपूर्णपश्चेन्द्रियशरीरा, तथा लक्षणानि-स्वस्तिकचक्रादीनि व्यञ्जनानि-मषीतिलकादीनि गुणाः-सौभाग्यादयस्तैरुपपेता लक्षणव्यञ्जनगुणापपेता, उप अप इत इतिशब्दत्रयस्थाने 'पृषोदरादय' इत्यपाकारस्य लोपे उपपेता इति द्रष्टव्यं, 'माणुम्माणपमाणपडिपुण्णसुजायसव्वंगसुंदरंगी' इति तत्र मानं जलद्रोणप्रमाणता, कथमिति चेत्, उच्यते, जलस्यातिभृते कुण्डे पुरुषे स्त्रियों वा निवेंशितायाँ यजलं निस्सरति तद्यदि द्रोणप्रमाणं भवति Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com