SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ २३ भूषकत्वाद पुरुषवरपुण्डरीकः, पुरुषः वरगन्धहस्तीव परानसहमानान् प्रतीति पुरुषवरगन्धहस्ती ततो भवति पुरुषवरः, तथा आढ्यः-समृद्धो दीप्तः शरीरत्वचा देदीप्यमानत्वात् दृप्तो वा दृप्तारिमानमर्दनशीलत्वात् अत एव वित्तो-जगत्प्रतीतो, यदुक्तमाढ्य इति तदेव सविस्तरमुपदर्शयति 'वित्थिण्णे 'त्यादि, विस्तीर्णानि-विस्तारवन्ति विपुलानि-प्रभूतानि भवनानि-गृहाणि शयनानि आसनानि च प्रतीतानि यानानि-र. थादोनि वाहनानि-अश्वादोनि एतैराकीर्णो-व्याप्तो युक्तो विस्तीविपुलभवनशयनासनयानवाहनाकीर्णः, तथा बहुधनं बहुजात. रूपं-सुवर्ण रजतं च-रूप्यं यस्य स बहुधनबहुजातरूपरजतः, तथा आयोगप्रयोगसम्प्रयुक्तः-आवाहनविसर्जनकुशलः, तथा विच्छर्दित-तथाविधविशिष्टोपकाराकारितया विसृष्टमुरिटकादिषु प्रचुरं भक्तपानं यस्मिन् राज्यमनुशासति स विच्छदितप्रचुरभक्तपानः, अनेन पुण्याधिकतया न तस्मिन् राज्यमनुशासति दुर्भिक्षमभूदिति कथितं, तथा बहूनां दासीनां दासानां गवां-बलीवर्दानां महिषाणां गवां-स्त्रीगवानां एडकानां च प्रभुः बहुदासीदासगोमहिषगवेलगप्रभुः, ततः स्वार्थिकप्रत्ययविधानात् प्रभुकः, तथा परिपूर्णानि-भृतानि यन्त्रकोशकोष्टागाराणि यन्त्रगृहाणि कोशगृहाणि-भाण्डागाराणि कोष्ठगृहाणि-धान्यानां कोष्ठागाराणि गृहाणि इति भावः, आयुधगृहाणि च यस्य स प्रतिपूर्णयन्त्रकोशकोष्ठागारायुधगृहः, तथा बलं शारीरिकं मानसिकं च यस्यास्ति स बलवान् , दुर्बलप्रत्ययमित्रो, दुर्बलानामकारणवत्सल इति भावः, एवंभूतः सन् राज्यं प्रशासत् विहरति अवतिष्ठते इति योगः, कथम्भूतं राज्यमित्याह-अपहतकण्टकं, इह देशोपद्रवकारिणश्वरटाः कण्टकाः ते अपहता अवकाशानासादनेन स्थगिता यस्मिन् तत् अपहतकण्टकं, तथा मलिताः-उपद्रवं कुर्वाणा मानम्लाShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy