SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ २२ 'क्षत्रादिय' इति इयप्रत्ययः, अनेन नवमाष्टमादिनन्दवत् राजकुलप्रसूतोऽपि न हीनजातीयः, किन्तु उत्तमजातीय इत्यावेदितं, तथा 'मुदितः' सर्वकालं हर्षवान्, प्रत्यनीको. पद्रवासम्भवात् , तदसम्भवश्च प्रत्यनीकानामेवाभावात् , तथा चाह- मुद्धाभिसित्ते' प्रायः सर्वैरपि प्रत्यन्तराजैः प्रतापमसहमान न्यथास्माकं गतिरिति परिभाव्य मूर्द्धभिः-मस्तकैरभिषिक्तः-पूजितो भूर्धाभिषिक्तः, तथा मातृपितृभ्यां सुजाता मातृपितृसुजातः, अनेन समस्तगर्भाधानप्रभृतिसम्भविदोषविकल इत्यावेदितः, तथा दया (द्रव्य) प्राप्तः स्वभावतः शुद्धजीवद्रव्यत्वात् , तथा सेवागतानामपूर्वापूर्वनृपाणां सीमांमर्यादां करोति यथा एवं वर्तितव्यमेवं नेति सीमङ्करः, तथा पूर्वपुरुषपरम्परायातां स्वदेशप्रवर्तमानां सीमां-मर्यादां धारयति पालयति न तु विधुम्पतीति सीमन्धरः, तथा क्षेमं-वश वर्तिनां उपद्रवाभावं करोति क्षेमङ्करः चौरादिसंहारात् तथा तत् धारयति आरक्षकनियोजनात् क्षेमन्धरः, अत एव मनुष्येन्द्रः, तथा जनपदस्य पितेव जनपदपिता, कथं पितेवेत्यत आह-' जनपदपालः ' जनपदं पालयतीति जनपदपालः, ततो भवति जनपदस्य पितेव. तथा जनपदस्य शान्तिकारितया पुरोहित इव जनपदपुरोहितः, तथा सेतुः-मार्गस्तं करोतीति सेतुकरः, मार्गदेशक इति भावः, केतुः-चिह्न तत्करोतीति केतुकरः, अद्भुतसंविधानकारीति भावः, तथा नरेषु-मनुष्येषु मध्ये प्रवरो-नरप्रवरः, स च सामान्यमनुष्यापेक्षयापि स्यादत आह-'पुरिसवरे' पुरुषेषु-पुरुषाभिमानेषु मध्ये वरः-प्रधानः उत्तमपौरुषोपेतत्वादिति पुरुषवरः, यतः पुरुषः सिंह इवाप्रतिमलतया पुरुषसिंहः, तथा पुरुषो व्याघ्र इव शूरतया पुरुषव्याघ्रः, पुरुष आशीविष इव दोषविनाशनशीलतया पुरुषाशीविषः पुरुषः वरपुण्डरीकमिवोत्तमतया भुवनसरोवर Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy