SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ १९ अञ्जनको वनस्पतिविशेषः घनो - मेघः कुवलयं - नीलोत्पलं हलधरकौशेयं - बलदेववखं तैः सदृशः समानवर्णः, 'आगासकेसकज्जलकक्केयणइंदनीलअयसिकुसुमप्पगासे' आकाश धूलीमेघादिविरहितं, केशाः- शिरसिजाः, कज्जलं - प्रतीतं, कर्केतनेन्द्रनीलौ - मणिविशेषौ अतसीकुसुमं प्रसिद्धमेतेषामिव प्रकाशो दीप्तिर्यस्य स तथा 'भिंगंजणभंगमेयरिट्ठगनील गुलियगवलाइरेगे' इति भृङ्गः - चतुरिन्द्रियः पक्षिविशेषः अञ्जनं-सौवीराञ्जनं तस्य भङ्गेन - विच्छित्त्या भेदः - छेदोऽञ्जनभङ्गभेदो रिष्ठका रत्नविशेषः नीलगुटिकाः - प्रतीताः, गवलं - माहिषं शृङ्गं तेभ्योऽपि कृष्णत्वेनातिरेको यस्य स तथा ' भ्रमरनिकुरम्बभूए इति अत्र भूतशब्द औपम्यवाची, यथायं लाटदेशः सुरलोकभूतः सुरलोकोपम इत्यर्थः, ततोऽयमर्थः - भ्रमरनिकुरुम्बोपमः, ' जंबूफल असणकुसुमबंधणनीलुप्पलपत्तनिकरमरगयआसासगनयणकीयासिवण्णे' जम्बूफलानि प्रतीतानि, असनकुसुमबन्धनं - असनपुष्पवृन्तं नीलोत्पलपत्रनिकरो मरकतमणिः प्रतीतः, आसासको - बीयकाभिधानो वृक्षः, नयनकीको - नेत्रमध्यताराः, असि - खङ्गं तेषामिव वर्णो यस्य स तथा; स्निग्धो न तु रूक्षः घनो - निबिडो न तु कोष्ठक इव मध्यशुषिरः 'अज्झसिरे' इति लक्ष्णशुषिररहितः, 'रूवगपडिरूवगदरिसणिज्जे' इति रूपकाणां यानि तत्र सङ्क्रान्तानि ( प्रतिरूपकाणि ) प्रतिबिम्बानि तैः दर्शनीयो रूपकप्रतिरूपक दर्शनीयः, 'आदर्शतलोपमः' आ दर्शो - दर्पणस्तस्य तलं तेन समतयोपमा यस्य स आदर्श - तलोपमः, सुष्ठु मनांसि रमयतीति सुरम्यः 'कुद्वहुल' मिति वचनात् कर्तरि यप्रत्ययः, 'सिंहासणसंठिए' इति सिंहासनस्येव संस्थितं-संस्थानं यस्य स सिंहासनसंस्थितः, अत एव सुरूपः- शोभनं रूपम् - आकारो यस्य स सुरूपः, इतश्च सुरूपो यत आह-'मुत्ताजालखइयंतकम्मे' मुक्ताजालानि - मुक्ताफलसमूहाः www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat "
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy