________________
जलजकुसुमानां पद्मादीनामिवामलो गन्धो येषां ते जलजामलगन्धकाः अत एव सुरम्याः-अतिशयेन रमणीयाः 'पासाइया' इत्यादि पूर्ववत्, तस्स णमिति प्राग्वत्, अशोकवरपादपस्योपरि बहूनि छत्रातिच्छत्राणि छत्रात्-लोकप्रसिद्धादेकसङ्ख्याकादतिशायीनि छत्राणि उपर्यघोभागेन द्विसङ्ख्यानि त्रिसङ्ः ख्यानि वा छत्राणि छत्रातिच्छत्राणि, तथा बह्वयः 'पडागाइपडागा' इति पताकाभ्यो लोकप्रसिद्धाभ्योऽतिशायिन्यः पताकाः पता कातिपताकाः बहूनि तेष्वेव छत्रातिच्छत्रादिषु घण्टोयुगलानि चामरयुगलानि, तथा तत्र तत्र प्रदेशे उत्पलहस्तकाःउत्पलाख्या जलजकुसुमसङ्घातविशेषाः, एवं पद्महस्तकाः कुमुदहस्तकाः नलिनहस्तकाःसुभगहस्तकाः सौगन्धिकहस्तकाः पुण्डरीकहस्तकाः महापुण्डरीकहस्तकाः शतपत्रहस्तकाः सहस्रपत्रहस्तकाः सुभगहस्तकाः, उत्पलं-गर्दभकं पद्म-सूर्यविकासि पङ्कजं कुमुदं-करवं नलिनम्-ईषद्रक्तं पद्मं सुभगं-पद्मविशेषः सौगन्धिकं-कल्हार पुण्डरीकं-श्वेताम्बुजं तदेवातिविशालं महापुण्डरीकं शतपत्रसहस्रपत्रे पत्रसङ्ख्याविशेषावच्छिन्नौ पद्मविशेषौ, एते च छत्रातिच्छत्रादयः सर्वेऽपि सर्वरत्नमया:सर्वात्मना रत्नमयाः ‘अच्छा सण्हा' इत्यादि विशेषणजातं पूर्ववत् , 'तस्स 'मित्यादि, तस्य 'ण'मिति प्राग्वत् अशोकवरपादपस्याधस्तात, 'एत्थ णमिति अशोकवरपादपस्य यदधः अत्र 'ण मिति पूर्ववत् एको महान् पृथ्वीशिलापट्टकः प्रज्ञप्तः, कथम्भूत इत्याह-'इसिंखंधो समल्लोणे' इत्यादि, इह स्कन्धः स्थुडमित्युच्यते, तस्याशोकवरपादपस्य यत् स्थुडं तत् ईषद्मनाक् सम्यग् लीनस्तदासन्न इत्यर्थः, 'विक्खम्भायामसुप्पमाणे' इति, विष्कम्मेनायामेन च शोभनम्-औचित्यानतिवर्ति प्रमाण यस्य स विष्कम्भायामसुप्रमाणः, कृष्णः कृष्णत्वमेव निरूपयति- अंजणघणकुवलयहलहरकोसेजसरिसा'
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com