________________
इयाओ दरिसणिजाओ अभिरुवाओ पडिरूवाओ इति' एतञ्च समस्तं प्राग्वद् व्याख्येयं, तस्य 'ण'मिति प्राग्वत्, अशोकवरपादपस्य उपरि बहूनि अष्टावष्टौ मङ्गलकानि प्राप्तानि, तद्यथा-स्वस्तिकः श्रीवृक्षो 'नंदियावत्ते' इति नन्द्यावर्तः, कचिद् नन्दावत्त इति पाठः, तत्र नन्दावर्त इति शब्दसंस्कारः वर्धमानकं-शरावसम्पुट भद्रासनं कलशो मत्स्ययुग्मं दर्पणः एतानि चाष्टावपि मङ्गलकानि सर्वरत्नमयानि अच्छानि-आका. शस्फटिकवदतीव स्वच्छानि श्लक्ष्णानि-श्लक्ष्णपुद्गलस्कन्धनिष्पन्नानि श्लक्ष्ण-( तन्तु-) निष्पन्नपटवद् लण्हानि-मसृणानि घुण्टितपटवद् ‘घट्ठाईति घृष्टानीव घृष्टानि खरशाणया पाषाणप्रतिमावत् 'मट्ठाईति मृष्टानोव मृष्टानि, सुकुमारशाणया पाषाणप्रतिमेव, अत एव नीरजांसि-स्वाभाविकरजोरहितत्वात्, निर्मलानि-आगन्तुकमलाभावात्, निष्पङ्कानि-कलङ्कविकलानि कर्दमरहितानि वा निष्कङ्कटा-निष्कवचा निरावरणा निरुपघा. तेति भावार्थः छाया-दीप्तिर्येषां तानि निष्कङ्कटच्छायानि 'सप्रमाणि' स्वरूपतः प्रभावन्ति 'समरीचीनि' बहिर्विनिर्गतकिर• णजालानि, अत एव सोद्योतानि-बहिर्व्यवस्थितवस्तुस्तोमप्रकाशकराणि 'पासाइया' इत्यादिपदचतुष्टयव्याख्या पूर्ववत् । 'तस्स णमित्यादि, तस्य 'ण'मिति प्राग्वत् , अशोकवरपाद: पस्योपरि बहवः कृष्णचामरध्वजाः, चामराणि च ध्वजाश्च चामरध्वजाः कृष्णाश्च ते चामरध्वजाश्च कृष्णचामरध्वजाः, एवं नीलचामरध्वजाः, लोहितचामरध्वजाः, हारिद्रचामरध्वजाः, शुक्लचामरध्वजाः, एते च कथम्भूता इत्याह-अच्छाः-स्फटिकवदतिनिर्मलाः, श्लक्ष्णाः-श्लक्ष्णपुद्गलस्कन्धनिष्पन्नाः, 'रुप्पपट्टा' इति रूप्यो-रूप्यमयो वज्रमयस्य दण्डस्योपरि पट्टो येषां ते रूप्यपट्टाः 'वइरदण्डा' इति वज्रो-वज्ररत्नमयो दण्डो रूप्यपट्टमध्यवर्ती येषां ते वज्रदण्डाः, तथा जलजानामिव
२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com