________________
सुगन्धि सुगन्धिकां शुभसुरभिभ्यो गन्धान्तरेभ्यः सकाशात् मनोहरा शुभसुरभिमनोहरा तां च, 'महया' इति प्राकृतत्वात् द्वितीयार्थे तृतीया, महतीमित्यर्थः, गन्धघ्राणिं यावद्भिर्गन्धपुद्गलैर्गन्धविषये गन्धघाणिरुपजायते तावती गन्धपुद्गलसंहतिरुपचारात् गन्धघ्राणिरित्युच्यते, तां निरन्तरं मुश्चन्तः, तथा, 'सुहसे उकेउबहुला' इति शुभाः-प्रधाना इति सेतवोमार्गा आलवालपाल्यो वा केतवो-ध्वजा बहुला बहवो येषां ते तथा,' अणेगरहसगडजाण जुग्गगिल्लिथिल्लिसिवियसंदमाणियपडिमोयणा' इति, रथा द्विविधाः-क्रोडारथाः सङ्ग्रामरथाश्च, शकटानि प्रतीतानि, यानानि-सामान्यतः शेषाणि वाहनानि युग्यानि-गोल्लविषयप्रसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशोभितानि जम्पानानि शिबिकाः-कूटाकारेणाच्छादिता जम्पानविशेषाः स्यन्दमानिकाः-पुरुषप्रमाणजम्पानविशेषाः, अनेकेषां रथशकटादीनां मध्येऽतिविस्तीर्णत्वात् प्रतिमोचनं येषु तत्तथा, 'पासादीया' इत्यादिपदचतुष्टयं प्राग्वत्, 'ते णं तिलगा' इत्यादि पाठसिद्धं, नवरं 'नागलयाहिं' ति नागाः-द्रुमविशेषाः 'वणलयाहिं' ति वना अपि द्रुमविशेषाः, द्रुमाणां च लतात्वमेकशाखाकानां द्रष्टव्यं, ये हि द्रुमा ऊर्ध्वगतैकशाखा न तु दिग्विदिक्प्रसृतबहुशाखास्ते लता इति प्रसिद्धाः, 'निच्चं कुसुमियाओ जाव पडिरूवोओ' इत्यत्र यावच्छन्दकरणात् 'निचं कुसु. मियोओ निचं मालइयाओ निञ्च लवइयाओ निच्चं थवइयाओ निच्चं गुच्छियाओ निच्चं गुम्मियाओ निचं जमलियाओ निश्चं जुयलियाओ निचं विणमियाओ निञ्च पणमियाओ सुविभत्तपडिमंजरिवडिंसगधरीओ निचं कुसुमियमालइयथवइयलवइयगुम्मियजमलियजुयलियगुच्छियविणमियपणमियसुविभत्तपडिमजरिवडिंसगधरीओ संपिडियदरियभमरमहुयरिपहकरपरिलेंतमत्तछप्पयकुसुमासवलोलमहुरगुमगुमेंतगुंजंतदेसभागाओ पासाShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com