________________
कलहंससारसाः प्रतोताः, शेषास्तु जीवविशेषा लोकतो वेदितव्याः, तथा सम्पिण्डिताः एकत्र पिण्डीभूताः दृप्ताः-मदोन्मत्ततया दध्माता भ्रमरमधुकरीणां पहकराः-सङ्घाताः 'पहकर ओरोह संघाया' इति देशीनाममालावचनात् यत्र ते सम्पिण्डितदृप्तभ्रमरमधुकरीपहकराः, तथा परिलीयमानाः-अन्यत आगत्याश्रयन्तो मत्ताः षट्पदाः कुसुमासवलोलाः-किअल्कपानलम्पटा मधुरं गुम गुमायमाना गुञ्जन्तश्व-शब्दविशेषं च विदधाना देशभागेषु येषां ते परिलीयमानमत्तषट्पदकुसुमासवलोलमधुरगुमगुमायमानगुञ्जद्देशभागाः, गमकत्वादेवमपि समासः, ततो भूयः पूर्वपदेन विशेषणसमासः, तथा अभ्यन्तराणि अभ्य. न्तरभागवर्तीनि पुष्पाणि च फलानि च पुष्पफलानि येषां ते तथा, 'बाहिरपत्तोच्छन्ना इति' बहिस्तः पत्रैश्छन्ना-व्याप्ता बहिःपत्रच्छन्नाः, तथा पत्रैश्च पुष्पैश्च अवच्छन्नपरिच्छन्नाः- अत्यन्तमाच्छादिताः, तथा नीरोगकाः-रोगवर्जिता अकण्टकका:-कण्टकरहिताः, न तेषां प्रत्यासन्ना बब्बूलादिवृक्षाः सन्तीति भावः, तथा स्वादूनि फलानि येषां ते स्वादुफलाः, तथा स्निग्धानि फलानि येषां ते स्निग्धफलाः, तथा प्रत्यासन्नै नाविधैःनानाप्रकारैर्गुच्छैः-वृन्ताकोप्रभृतिभिर्गुल्मैः--नवमालिकादिभिर्मण्डपकैः शोभिता नानाविधगुच्छगुल्ममण्डपकशोभिताः, तथा विचित्रैः-नानाप्रकारैः शुभैः-मण्डनभूतैः केतुभिः-ध्वजैर्बहुलाव्याप्ता विचित्रशुभकेतुबहुलाः, तया 'वाविपुक्खरिणोदीहियासु य सुनिवेसियरम्मजालघरगा' वाप्यश्चतुरस्राकारास्ता एव वृत्ताः पुष्करिण्यः, यदिवा पुष्कराणि वर्तन्ते यासु ताः पुष्करिण्यः, दीर्घिका ऋजुसारिण्यः, वापीषु पुष्करिणीषु दीर्घिकासु च सुष्टु निवेशितानि रम्याणि जालगृहकाणि येषु ते वापीपुष्करिणीदीर्घिकासु सुनिवेशितरम्यजालगृहकाः, तथा पिंडिमा-पिण्डिता सती निर्हारिमा-दूरं विनिर्गच्छन्ती पिण्डिमनिर्हारिमा तां
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com