________________
कुमारप्रवालशोभिलवराङ्कुरायशिखराः,
शशाभलवराङ्कुरानाशखराः, इहाङ्करप्रवालयोः कालकृतावस्थाविशेषाद्विशेषो भावनीयः, तथा नित्यं-सर्वकालं, षट्स्वपि ऋतुषु इत्यर्थः, 'कुसुमिताः' कुसुमानि-पुष्पाणि सञ्जातान्येषामिति कुसुमिताः, तारकादिदर्शनादितप्रत्ययः, 'निचं मालइया' (मउलिया) इति नित्यं-सर्वकालं मुकुलितानि, मुकुलानि नाम कुड्मलानि कलिका इत्यर्थः, 'निच्चं लवइया' इति पल्लविताः, नित्यं 'थवइया' इति स्तबकिताः स्तबकभारवन्त इत्यर्थः, नित्यं 'गुलइया' इति गुल्मिताः स्तबकगुल्मौ गुच्छविशेषौ, नित्य 'गोच्छिया गोच्छवन्तः' नित्यं 'जमलिया' यमलं नाम समानजातीययोर्युग्मं तत् सञ्जातमेषामिति यमलिताः, नित्यं युगलिता युगलं-सजातीयविजातीययो. ईन्द्रं तदेषां सजातमिति युगलिताः, तथा नित्यंसर्वकालं फलभरेण विनताः-ईषन्नताः, तथा नित्यं महता फलभरेण प्रकर्षणातिदूरं नताः प्रणताः, तथा नित्य-सर्वकालं सुविभक्तः-सुविच्छित्तिकः प्रतिविशिष्टो मञ्जरीरूपो योऽवतंसकस्तद्धरास्तद्धारिणः, एवं सर्वोऽपि कुसुमितत्वादिको धर्म एकैकस्य वृक्षस्योक्तः, साम्प्रतं केषाश्चिद्वृक्षाणां सकलकुसुमि. तत्वादिधर्मप्रतिपादनार्थमाह-'निचं कुसुमियमउलियेत्यादि,' किमुक्तं भवति-केचित्कुसुमितायेकैकगुणयुक्ताः केचित्समस्तकुसुमितादिगुणयुक्ता इति, अत एव कुसुमियमालइयमउलियेत्यादिपदेषु कर्मधारयः, तथा शुकबर्हिणमदनशालिकाकोकिलाकोरककोभवभिङ्गारककोण्डलकजीवंजीवकनन्दीमुखकपिलपिङ्गलाक्षकारण्डवचक्रवाककलहंससारसाख्यानामनेकेषां शकुनगणानां मिथुनैः-स्त्रीपुंसयुक्तैर्यद्विचरितम्-इतस्ततोगमनं यच्च शब्दोनतिकं-उन्नतशब्दकं मधुरस्वरं च नादितं-लपितं येषु ते तथा, अत एव सुरम्याः-सुष्टु रमणीयाः, अत्र शुकाः-कीराः, बहिणो मयूराः, मदनशालिकाः-शारिकाः, कोकिला:-पिकाः, चक्रवाक
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com