________________
वातदोषतः कालदोषतो वा गडरिकादिरितिरुपजातो येन तेषु पत्रेषु छिद्राण्यभविष्यन्नित्यच्छिद्रपत्राः अथवा एवं नामान्योऽन्यं शाखाप्रशाखानुप्रवेशात् पत्राणि पत्राणामुपरि जातानि येन मनागप्यपान्तरालरूपं छिद्रं नोपलक्ष्यते इति, तथा चाह-'अ. विरलपत्ता' इति, अत्र हेतौ प्रथमा, ततोऽयमर्थः-यतः अविर. लपत्रा अतोऽच्छिद्रपत्राः, अविरलपत्रा इति कुत इत्याहअवातीनपत्रा वातीनानि-वातोपहतानि, वातेन पातितानीत्यर्थः, न वातीनानि अवातीनानि पत्राणि येषां ते तथा, किमुक्तं भवति ?-न प्रबलेन खरपरुषेण वातेन तेषां पत्राणि भूमौ निपा. त्यन्ते, ततोऽवातोनपत्रत्वादविरलपत्रा इति अच्छिद्रपत्रा इति, अच्छिद्रपत्रा इत्यत्र प्रथमव्याख्यानपक्षमधिकृत्य हेतुमाह'अणईइपत्ता' न विद्यते इतिः-गडुरिकादिरूपा येषां तान्यती. तीनि, अतीतीनि पत्राणि येषां ते अतोतिपत्राः, अतीतिपत्रत्वा. चाच्छिद्रपत्राः, 'निद्धयजरढपंडुपत्ता' इति नि तानि-अपनीतानि जठरानि पाण्डुपत्राणि येभ्यस्ते नि तजरठपाण्डुपत्राः, किमुक्तं भवति ?-यानि वृक्षस्थानि जरठानि पाण्डुपत्राणि वातेन निर्दृय भूमौ पातितानि भूमेरपि च प्रायो निर्द्धय निर्द्धयान्यत्रापसरितानीति, 'नवहरियभिसंतपत्तभारंधयारगंभीरदरिस. णिज्जा' इति नवेन-प्रत्यग्रेण हरितेन-नीलेन भासमानेन स्निग्धत्वेन वा दीप्यमानेन पत्रभारेण-दलसञ्चयेन यो जातोऽन्धका रस्तेन गम्भीरा-अलब्धमध्यभागाः सन्तो दर्शनीया नवहरितभासमानपत्रमारान्धकारगम्भीरदर्शनीयाः, तथा उपविनिर्गतैः निरन्तरविनिर्गतैरिति भावः, नवतरुणपत्रपल्लवैस्तथा कोमलैः मनोरुज्वलैः-शुद्धैश्चलद्भिःईषत्कम्पमानैः किसलयैः-अवस्थाविशेषोपेतैः पल्लवविशेषैस्तथा सुकुमारैः प्रवालैः-पल्लवाङ्करैः शोभितानि वराङ्कराणि-वराङ्करोपेतानि अग्रशिखराणि येषां ते उपविनिर्गतनवतरुणपत्रपल्लवकोमलोज्वलचलत्किसलयसु.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com