________________
पत्तहि य पुप्फेहि य उच्छन्नपलिच्छिन्ना निरोगका साउफला अकंटका णाणाविहगुच्छगुम्ममंडवगसोहिया विचित्तसुहकेउपभूया वाविपुक्खरिणिदीहियासु य सुनिवेसियरम्मजालघरगा पिंडिमनीहारिमसुगंधिसुहसुरभिमणहरं च महया गंधद्धणिं मुंचंता सुहसेउकेउबहुला अणेगसगडजाणजुग्गगिल्लिथिल्सिीयसंदमाणिपडिमोयगा पासाइया दरिसणिज्जा अभिरूवा पडिरूवा' इति परिग्रहः, अस्य व्याख्या-इह मूलानि सुप्रतोतानि यानि कन्दस्याधः प्रसरन्ति, कन्दास्तेषां मूलानामुपरिवर्तिनस्ते अपि प्रतीताः, खन्धः-थुडं त्वक्-छल्ली शाला:शाखाः प्रवालः-पल्लवाङ्करः पत्रपुष्पफलबीजानि सुप्रसिद्धानि, सर्वत्रातिशयेन क्वचिद् भूम्नि वा मतुष्प्रत्ययः, 'अणुपुत्वसुजायरुचिलवट्टभावपरिणया' इति आनुपूा-मूलादिपरिपाटया सुष्ठु जाता आनुपूर्वीसुजाता रुचिराः-स्निग्धतया देदीप्यमानच्छविमन्तः, तथा वृत्तभावेन परिणता वृत्तभावपरिणताः, किमुक्तं भवति ?-एवं नाम सर्वासु दिक्षु विदिक्षु च शाखाभिः प्रशाखाभिश्च प्रसूता यथा वर्तुलाः. संजाता इति, आनुपूर्वीसुजाताश्च ते रुचिराश्च आनुपूर्वीसुजोतरुचिरास्ते च ते वृत्तभावपरिणताश्च आनुपूर्वीसुजातरुचिरवृत्तभावपरिणताः ते तथा, तिलकादयः पादपाः प्रत्येकमेकस्कन्धाः, प्राकृते चास्य स्त्रीत्वमिति 'एगखंधा' इति सूत्रपाठः, तथा अनेकाभिः शाखाभिः प्रशाखाभिश्च मध्यभागे विटपो-विस्तारो येषां ते तथा, तिर्यग् बाहुद्वयं प्रसारणप्रमाणोव्यामः,व्यामीयन्ते-परिच्छिद्यन्ते रज्वाद्यनेनेति व्यामः, बहुलवचनात् 'करणे क्वचिदिति डप्रत्ययः, अनेकैर्नरव्यामैः-पुरुषव्यामैः सुप्रसारितैरग्राह्यः अप्रमेयो घनोनिबिडो विपुलो-विस्तीर्णो वृक्षः-स्कन्धो येषां ते अनेकनर. व्यामसुप्रसारिताग्राह्यघनविपुलवृत्तस्कन्धाः, तथा अच्छिद्राणि
पत्राणि येषां ते अच्छिद्रपत्राः, किमुक्तं भवति ? न तेषां पत्रेषु Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com