________________
२०४
१
पत्राणि प्रोतानि सन्ति, नानामणिमयो ग्रन्थिः दवरकस्थादौ येन पत्राणि न निर्गच्छन्ति, अङ्करत्नमयानि पत्राणि, नानामणिमयं लिव्यासनं, मषीभाजनमित्यर्थः, तपनीयमयी शृङ्खला मषी भाजनसत्का, रिष्ठरत्नमयं उपरितनं तस्य छादनं, रिष्ठमयीरिष्ठरत्नमयी मषी, वज्रमयी लेखनी, रिष्ठमयान्यक्षराणि, धार्मिकं लेख्यं, क्वचित्- ' धम्मिए सत्थे' इति पाठः, तत्र धार्मिकं शास्त्रमिति व्याख्येयं तस्याश्च उपपातसभाया उत्तरपूर्वस्यां दिशि महदेकं बलिपीठं प्रज्ञप्तं तच्चाष्टौ योजनानि आयामविष्कम्भतः चत्वारि योजनानि बाहल्यतः सर्वरत्नमयं ( अच्छ' मित्यादि प्राग्वत् । तस्य च बलिपीठस्य उत्तरपूर्वस्यां दिशि अत्र महत्येका नन्दापुष्करिणी प्रज्ञप्ता, सा च हृदप्रमाणा, हृदस्येव च तस्या अपि त्रिसोपानवर्णनं तोरणवर्णनं च प्राग्वत् ( सू० ४० ) ॥ तदेवं यत्र याहगुरूपं च सूर्याभस्य देवस्य विमानं तत्र तादृग्रूपं चोपवर्णितं, सम्प्रति सूर्याभो देव उत्पन्नः सन् यदकरोत् यथा च तस्याभिषेकोऽभवत् तदुपदर्शयति
तेणं कालेणं तेणं समएणं सूरियाभे देवे अहुणोववण्णमित्त चैव समाणे पंचविहार पज्जत्तीए पज्जत्तीभावं गच्छइ, तं जहा - आहारपज्जतीए सरीरपज्जत्तीए इंदियपज्जत्तीए आमपाणपज्जत्तीए भासामणपज्जत्तीए । तए णं तस्स सूरियाभस्स देवस्स पंचविहार पज्जत्तीए पज्जत्तीभावं गयस्स समाणस्स इमेयावे अज्झथिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था - किं मे पुव्वि करणिज्जं ? किं मे पच्छा करणिज्जं ? किं मे पुत्रि सेयं ? किं मे पच्छा सेयं ? किं मे पुव्विपि पच्छावि हियाए सुयाए खमाए निस्सेसार आणुगामियत्ताए भविस्सर ?
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com