SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ २०३ . संपरिक्षिप्तः, पद्मवरवेदिकावर्णनं वनखण्डवर्णनं च प्राग्वत्, तस्य हृदस्य त्रिदिशि-तिसृषु दिक्षु त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि, तेषां च त्रिसोपानप्रतिरूपकाणां तोरणानां च वर्णनं प्राग्वत्।तस्य च हृदस्य उत्तरपूर्वस्यां दिशि अत्र महत्येका अभिषेकसभा प्रज्ञप्ता,सा च सुधर्मसभावत् प्रमाणस्वरूपद्वारत्रयमुख मण्डपादिप्रकारेण तावद्वक्तव्या यावद् गोमानसीवक्तव्यता, तदनन्तरं तथैव उल्लोकवर्णनं भूमिभागवर्णनं च तावत् यावन्मणीनां स्पर्शः । तस्या अभिषेकसभाया बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे महत्येका मणिपीठिका प्रज्ञप्ता, साप्यष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्यतः 'सव्वरयणामयी' इत्यादि प्राग्वत् , तस्या मणि. पीठिकाया उपरि अत्र महदेकं सिंहासनं, सिंहासनवर्णकः प्राग्वत् , नवरमत्र परिवारभूतानि भद्रासनानि च वक्तव्यानि, तस्मिँश्च सिंहासने सूर्याभस्य देवस्य सुबहु अभिषेकभाण्डम्अभिषेकयोग्य उपस्कारः सन्निक्षिप्तः तिष्ठति, 'तीसे णं अभिसेयसभाए अट्ठमंगलका' इत्यादि प्राग्वत्, तस्याश्च अभिषेकसभाया उत्तरपूर्वस्यां दिशि अत्र महत्येका अलङ्कारसभा प्रज्ञप्ता, सा चाभिषेकसभावत् प्रमाणस्वरूपद्वारत्रयमुखमण्डपप्रेक्षागृहमण्डपादिवर्णनप्रकारेण तावद्वक्तव्या यावद् परिवारसिंहासनं, तत्र सूर्याभस्य देवस्य अलङ्कारिकं-अलङ्कारयोग्यं भाण्डं संनिक्षिप्तमस्ति, शेषं प्राग्वत् । तस्याश्च अलङ्कारसभाया उत्तरपूर्वस्यां दिशि अत्र महत्येका व्यवसायसभा प्रज्ञप्ता, सा च अभिषेकसभावत् प्रमाणस्वरूपद्वारत्रयमुखमण्डपादिवर्णनप्रकारेण तावद्वक्तव्या यावत् सिंहासनं सपरिवारं, तत्र महदेकं पुस्तकरत्नं सन्निक्षिप्तमस्ति, तस्य च पुस्तकरत्नस्य अय. मेतद्रपो 'वर्णावासो' वर्णकनिवेशः प्रज्ञप्तः, रिष्टमय्यौ-रिष्ठरत्नमय्यौ कम्बिके पृष्ठके इति भावः, रत्नमयो दवरको यत्र Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy