SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ प्राग्वत् । 'तीसे ण' मित्यादि, तस्याश्च मणिपीठिकाया उपरि अत्र महानेको देवच्छन्दकः प्रज्ञप्तः, स च षोडश योजनान्यायामविष्कम्भाभ्यां सातिरेकाणि षोडश योजनान्यर्ध्वमुच्चैस्त्वेन 'सव्वरयणामए' इत्यादि प्राग्वत्, तत्र च देवच्छन्दके 'अष्ट. शतं' अष्टाधिकं शतं जिनप्रतिमानां जिनोत्सेधप्रमाणमात्राणां, पञ्चधनुःशतप्रमाणानामिति भावः, सन्निक्षिप्तं तिष्ठति । 'तासि णं जिणपडिमाण' मित्यादि, तासां जिनप्रतिमानामयमेतद्रूपो 'वर्णावासो' वर्णकनिवेशः प्रज्ञप्तः, तपनीयमयानि हस्ततल. पादतलानि अङ्करत्नमया अन्तः-मध्ये लोहिताक्षरत्नप्रतिसेका नखाः कनकमया जङ्घाः कनकमयानि जानूनि कनकमया ऊरवः कनकमय्यो गात्रयष्टयः तपनीयमया नाभंयो रिष्टमय्यो रोमराजयः तपनीयमयाः चुचुकाः-स्तनाग्रभागाः तपनीयमयाः श्रीवत्साः शिलाप्रवालमया-विद्रुममया ओष्टाः स्फटिकमया दन्ताः तपनीयमया जिह्वाः तपनीयमयानि तालुकानि कनकमय्यो नासिकाः अन्तर्लोहिताक्षप्रतिसेकाः अङ्कमयान्यक्षीणि अन्तलौंहिताक्षप्रतिसेकानि रिष्ठरत्नमयानि अक्षिपत्राणि रिष्ठरत्नमय्यो ध्रुवः कनकमयाः कपोलाः कनकमयाः श्रवणाः कनकमय्यो ललाटपट्टिकाः वज्रमय्यः शीर्षघटिकाः तपनीयमय्यः केशान्तकेशभूमयः, केशान्तभूमयः केशभूमयश्चेति भावः, रिष्ठमया उपरि मूर्द्धजाः-केशाः, तासां जिनप्रतिमानां पृष्ठत एकैका छत्रधारप्रतिमा हिमरजतकुन्देन्दुप्रकाशं सकोरेण्टमाल्यादिधवलमातपत्रं गृहीत्वा सलीलं धरन्ती तिष्ठति, तथा तासांजिनप्रतिमानां प्रत्येकमुभयोः पार्श्वयोर्द्वद्वे चामरधारप्रतिमे प्रज्ञप्ते ते च 'चंदप्पभवयरवेरुलियनानामणिरयणखचियचित्तदंडाओ' इति चन्द्रप्रभ:-चन्द्रकान्तो वज्रं वैडूर्य च प्रतीतं चन्द्रप्रभवज्र. वडूर्याणि शेषाणि च नानामणिरत्नानि खचितानि येषु दण्डेषु ते तथा, एवंरूपाश्चित्रा-नानाप्रकारा दण्डा येषां तानि तथा, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy